Author(s): खेमराजः
Abstract:
समस्तविश्वे भारतभूमेः गौरवन्तु सर्वत्रैव प्रचक्षते । तत्रापि स्वर्गतुल्यभूमौ भारतवर्षस्य काश्मीरप्रान्ते बहव आचार्याः राजन्ते तत्र कल्हणजय्यटकैय्यटश्चेत्यादीनां स्थानं सर्वोपरि विद्यते । तत्र भगवद्भास्करदेवालये आचार्यकल्हणस्य राजतरङ्गिण्याः रचनाऽभवत् । आचार्यकल्हणेन संस्कृतभाषा-यामुपनिबद्धा पद्यशैल्यां विरचिता च ‘राजतरङ्गिणी’ इत्याख्या रचना एकं न्यायाधीशमिव रागद्वेषविमुक्तं काश्मीरीयक्रमबद्धेतिहासस्य एकं निर्भिकं निष्पक्षञ्च काव्यं विद्यते, यत्र काश्मीरी-यप्रजायाः सभ्यतायाश्च ऐतिहासिक-धार्मिक-राजनैतिक-सामाजिक-आर्थिक-जनजीवनविषये विस्तृतं ज्ञानं प्रददाति । सर्वादौ वैदिकपौराणिकजैनबौद्धसंस्कृतीनां बाहुल्यमासीत् । परञ्चार्वाचीनसमये काश्मीरप्रान्ते बाहुल्येन इस्लामिकदर्शनस्य संस्कृतेश्च प्राधान्यं सम्प्राप्यते । यद्यपि आदौ वैदिकपौराणिक-जैनबौद्धदर्शनानां समन्वय एवात्रासीत् । यैः मानवतावाद-धर्मनिरपेक्षता-सहिष्णुतेत्यादीनां क्रमबद्धो विकासो बभूव । राजतरङ्गिण्यां काश्मीरप्रान्तस्य शासकानां वंशावलीनां, शासकानां नीतीनामुल्लेखः, आर्थिक-धार्मिक-भौगोलिक-सामाजिक-सांस्कृतिकेत्यादिविषयाणां सत्यनिष्ठघटनानां पक्षविपक्षाणाञ्च समुल्लेखः संराजते। भारतीयसंस्कृतसाहित्यस्येतिहासलेखनं कस्यचित् इतिहासकारस्य दृष्टिकोणेन दार्शनिकविवेचनं विवेच्यते । यत्र इतिहासकारेण राष्ट्रियसांस्कृतिकसामाजिकप्रवृत्तीनां दिग्दर्शनस्य प्रयत्नं क्रियते । क्रमेऽस्मिन् काश्मीरप्रान्तस्येतिहासे कविवरेण कल्हणेन ११४८-५० ख्रिस्ताब्दे विविधकाश्मी-रीयप्रवृत्तीनां तुलनात्मकमध्ययनं कृत्वा व्यक्तगततथ्यानामुपरि सार्वजनिकशासकीयप्रवृत्तीनां निष्पक्ष-तया प्रस्तुतीकरणं कृतमस्ति । ‘राजतरङ्गिणी’ इति ग्रन्थः आत्मचिन्तनशीलप्रक्रियायाः इतिहासदर्शने प्रभावयुक्तविद्वतायाः परिष्कृतसंस्कृतस्य प्रामाणिकी उत्कृष्टकृतिरस्ति । रचनायामस्यां काश्मीरप्रान्तस्य वैज्ञानिकपद्धत्यानुरूपं वैज्ञानिकदृष्टिकोणेन विश्लेषणेन विवेचनेन च क्रमबद्धोपायैः काश्मीरस्य ऐतिहासिकबिन्दूनामनुसन्धानं कृतमस्ति । तत्रैतिहासिकगवेषणया उन्नतिशीलविस्तारेण गम्भीरतया च ११८४ ख्रिस्ताब्दपूर्वात् नृपात् गोनन्दात् विजयसिन्हानृपस्य ११२९ ख्रिस्ताब्दपूर्वं यावत् काश्मीरस्य प्राचीनराजवंशानां राजनैतिकपारम्परिक-घटनाः अपि सम्मेल्य व्याख्यापरकेतिहासः अप्रस्तौत् । अत्र कल्हणद्वाराविविधसंस्कृतसाहित्यस्य तथा अभिलेखानामध्ययनं कालक्रमं निर्धारयते । अत्रापि काश्मीरप्रान्तस्य राजनैतिकेतिहासस्य विषये चर्चा भविष्यति । राजतरङ्गिण्याः आधुनिकावधारणाभिः प्रेरितं भूत्वा प्राचीनकाश्मीरीयैतिहासिकदृष्टिकोणस्य तथ्यात्मकराजनैतिकैतिहासस्य प्रस्तुतीकरणमस्ति, येन रचनायाः अस्याः प्राथमिकस्तोत्ररूपेण तत्सम्बन्धितप्राच्यराजनैतिकविषयेभ्यः तथा समसामयिकैतिहासिकविषयेभ्यः अस्योपादेयता अत्यधिकी प्रासङ्गिकी प्रवर्तते । तथैव श्रीमद्भागवतनीलमतपुराणयोः काश्मीरीयैतिहासिकतया सह विविधविष-याणां ज्ञानमुपलभ्यते ।
PDF URL: View Article in PDF
