शर्ववर्मपाणिनिदिशा भावविचारः

Author(s): ऐन्दवी आर्या

Abstract:

बहुप्रकारके व्याकरणशास्त्रे पाणिनिव्याकरणस्य वैशिष्ट्यं विद्वल्लोके अनुभूयत एव। एवमेव शर्वर्मणा विरचितं कातन्त्राख्यं व्याकरणान्तरं विद्यते। बहवः विषयाः लोकतः सिद्धाः इति मत्वा अस्मिन् व्याकरणे तेषाम् उल्लेखो न दृश्यते। यथा कारकसंज्ञा तथा च यथा पाणिनीये लकाराः बहुविधकालभेदेषु दृश्यन्ते न तथा प्रकृते तावान्तः कालभेदाः सन्ति इतरेषां लोकसिद्धत्वात्। अस्मिन् शोधलेखे प्रत्ययार्थेषु अन्यतमस्य भावस्य कोऽर्थः स्वीकृतः उभयत्र एवमेव भावप्रत्ययान्तस्य एकवचनमात्रे व्यवहारः इत्यादयः विषयाः उल्लिखिताः।

PDF URL: View Article in PDF