“उपसर्गाणां द्योतकत्वं वाचकत्वं वेति शब्दशास्त्रीयमनुशीलनम्”

Author(s): दीपककुमारचौधरी

Abstract:

"अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। विवर्तते अर्थभावेन प्रक्रिया जगतो यतः।।" (वाक्यपदीयम्,ब्रह्मकाण्डम्-१) इत्युपर्युक्तव्याकरणसम्प्रदाय-दार्शनिकग्रन्थरत्नभूत-वाक्यपदीय- वचनप्रामाण्याज्ज्ञायते यत्सर्वोऽपि लोकयात्रासम्पादको जागतिको व्यवहारः शब्दायतनः (शब्दायत्तः शब्दमूलो वा)।अत्र महाकवेर्दण्डिनो वचनमपि प्रमाणम्- "इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा। वाचामेव प्रसादेन लोकयात्रा प्रवर्त्तते।।" (काव्यादर्शः-१.३.४)

PDF URL: View Article in PDF