वैदिकसंस्कृतौ दैवतवादस्य कपालिशास्त्रिभाष्यपरिप्रेक्ष्ये एकं समीक्षणम्

Author(s): डॉ.पवित्रकुमारनन्दः

Abstract:

देवाधीनं जगत्सर्वं मन्त्राधीनं तु देवता इत्याभाणकानुसारं वैदिकमन्त्रो देवानां स्तुत्यर्थं यजमानस्य कार्यसिद्ध्यर्थं विश्वस्य कल्याणार्थं सर्वाङ्गीणविकासार्थं च प्रवर्तते। वैदिकमन्त्रेषु तत्तदभिमानीदेवः स्तूयते। प्रत्येकं मन्त्रः कस्यचित् देवविशेषस्य स्तुतये प्रयुज्यते। तस्य च मन्त्रस्य विनियोगः कर्मपरवादिनां सायणादीनां भाष्यपङ्क्तौ विराजते। अतः वेदे नैके देवाः स्तूयन्ते इन्द्राग्निरुद्रमरुद्वरुणसूर्यवायुप्रभृतयः। ते च सर्वे देवाः यजमानेन प्रदत्तस्य हविर्द्रव्यस्य प्रापकाः सर्वाभीष्टप्रदायकाश्च भवन्ति। सायणीयभाष्ये अग्निः देवानां हविः प्रदाता, आह्वाता, सेनानी, पुरोहितः, ऋत्विक् इत्यादिरूपेण स्तूयते। स च पितृत्वेन बहुधा व्यपदिश्यते। किञ्च सर्वबलसमन्वितत्वेन इन्द्रः वायुश्च स्तूयेते। यजमानस्य सर्वाभीष्टप्रपूरणाय अश्विनौ स्तूयेते। विविधैः दृष्टान्तैः अश्विनोः स्तुतिरूपं फलं दर्शयितुमाख्यानादीनां विवरणं दत्तमस्ति। किञ्च सायंप्रातयोः देवत्वेन सविता स्तुयते। यश्च प्रसिद्धमन्त्रवर्णः सर्वैः यजमानैः साम्प्रतिकसमाजे अपि पठ्यते। सूर्यः सर्वेषां प्रेरकत्वेन स्तूयते। वाग्देवी सरस्वती अपि वागधिष्ठात्रीत्वेन वेदे स्तूयते। अन्यच्च नैके ऋषयः अपि देवत्वेन प्रतिभान्ति। तस्य च सूक्तस्य द्रष्टा देवता स एव ख्यायते। तदर्थं सायणभाष्यं कर्मपरत्वेन यद्यपि प्रसिद्धं भवति तथापि तत्र देवोपासना बहुधा कीर्त्त्यते। अन्यच्च केषुचिदेव सूक्तेषु प्रथममण्डले विष्णोः स्तुतिः प्राप्यते। स च वामनावतारत्वेन पुराणेषु उक्तविषयस्य सार्थक्यं विदधाति। सायणः देवोपासनायां स्तुतिपरकमन्त्राणां व्याख्यानं प्रतिपाद्य आध्यात्मिकतत्त्वानां विवरणं प्रददाति।

PDF URL: View Article in PDF