Author(s): नलिनाक्ष पण्डा
Abstract:
आचार्यसम्पदानन्दमिश्रमहोदयः स्वयं वाग्मी, योगीनः अरविन्दस्य मातुः च भक्तः। अरविन्दस्य रचनैः प्रभावितः स्वयं भारतीयसंस्कृतेः प्रचारकः, आध्यात्मिकतत्वाध्यापकः वर्तते। वाग्मित्वात् वैदेशिकैरपि बहुकृत्वः आहुतः सत्कृतश्च। अमेरिका संयुक्तराष्ट्रेषु(USA) अनेकाः कार्यशालाः गोष्ठीश्च अधुनापि योजयति। प्रधानवक्तृषु पाश्चात्यविद्यालयेषु अन्यतमो वर्तते। Trinidad and Tobago विश्वविद्यालयैः आहूतः सांस्कृतिकान् आध्यात्मिकान् विषयान् अरविन्दोक्तदिशा प्रचारविषयान् कृतवान्। आध्यात्मिकप्रचारको भुत्वा वासिष्ठकाव्यकण्ठगणपतिमुनेः कृतीः सम्पाद्य द्वादशसंख्यकग्रन्थरूपेण प्रकाशिकवान्। उत्कलविश्वविद्यालये “संस्कृत मानववाग्विकासः” इति विषये शोधनिबन्धोऽपि समर्पितः स्वर्णपदकपुरस्कारेण सत्कृतश्च।
PDF URL: View Article in PDF
