Author(s): अशोक कुमार शडांगी
Abstract:
अभिव्यक्तिसाधनार्थं सार्वजनीनमाश्रमविशेषः, अद्यतनकाले भाषा इति पदने अभिधानं दधाति । जन्मन आरभ्य मृत्युं यावत् यदा प्रयोगक्षेत्रे अवतरति तदा आवापोद्वाषाभ्यां शब्दसंसारं परीचिनोति, ध्वनिवलयं प्रविश्य पदान्तराणां च एकस्मिन् अभिश्वान प्रकारे उपपाद्यवाक्यं विनिर्माति येन स स्वयं अववोध्यजायते अन्यान् अवगच्छति च किन्तु कालवैभवेन संसारस्य विचित्रता कारणात् नैसर्गिकउपपादनाच भाषायाः कृते निर्धारितध्वनिवलये यथार्थता आकलयितुं नैव शक्नोति । तस्य ध्वनेः परिवर्तनं विपरिणामः स्वभाविकतया जायते। अतः शब्द संघटने भाषासंधाने च विच्युतिरागच्छति। तत्र विषौ एकरुपतायाः सन्धाने विधाने व कस्यचित् अनुशासनस्य प्रयोजनीयता प्रवर्तते। तच्चानुशासनमद्यत्वे शब्दमर्यादया व्याकरणमिति अभिधियते । शब्दानुशासनम् शब्दतन्त्रमिति तस्व शब्दस्य इमे सन्ति पर्यायवाचिनः शब्दाः । साधूत्वसन्धानाय शब्दानुशासनविधिः अनेन शास्त्रेण अवधार्यते "साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः" इति भर्नुहरेः प्रतिवचनम् । साधुत्वं नाम कालेन आगतानां शब्दानां प्रयोगार्हतासाधनम् । एतच्च व्याकरणशास्रं कालगरिम्ना भिन्नतां दधाति लोकाभिरुचिमादाय विभिन्नेनोपायेन प्रकारतां गृह्णाति। एतत्कृते ऐतिहां निगदति यत् प्रतिपदोक्तपाठादारभ्य सूत्रात्मकपाठ यावत् एतस्य शास्त्रस्य अनेकविधमुपपादनं प्रतिपदोक्तपाठः, सूत्रात्मकमुपपादनम्, पद्यात्मकनिवन्धनम्, गद्यात्मकनिर्वचनम् इत्यादि भावेन शब्दानुशासनस्य अनेकविधानि उपपादनानि । प्रतिपदोक्तपाठे प्रतिपदमनुशासनविधौ उच्चार्य्यते। अन्ये तद् गृहीतो जायते । प्रतिपदोक्तपाठःसफलं नाश्रितवान् - यत्तोहि महाभाष्यकारः तस्य रहस्यस्ग उद्घाटनं कृतवान्। अन्वैतस्मिन् शब्दोपदेशे सति किं शब्दानां प्रतिपतौ प्रतिपदपाठः कर्तव्यः गौरतः पुरुषो हस्ती शकुनिर्भूगो ब्रह्मण इत्येवमादाय शब्दाः पठितव्याः ? नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपदौ प्रतिपदपाठः एवं हि श्रुयते वृहस्यतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम । पञ्चतन्त्रेऽपि उक्तम् अवधार्यते "साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः" इति भर्नुहरेः प्रतिवचनम् । साधुत्वं नाम कालेन आगतानां शब्दानां प्रयोगार्हतासाधनम्।
PDF URL: View Article in PDF
