निरुक्त-मीमांसयोः देवतास्वरूपविचारः।

Author(s): डा.दु.फणियज्ञेश्वरयाजुलु

Abstract:

सनातनभारतीयसंस्कृतौ देवतानां महद्वैशिष्ट्यं वर्तते। केचन धर्मानुयायिनःबहुदेवतावादं गृह्णन्ति किंतु प्रचीनवैदिककाले एतादृशवादः न प्रचलति स्म। तथापि यागप्रधाने वैदिक वाङ्मये इन्द्रादि बहु देवतानाम् उल्लेखः दृश्यते। किंच यागादिषु पार्थिवद्रव्याणां देवतारूपेण स्तुतिः क्रियते। उपनिषत्सु त एव इन्द्रादयः परब्रह्म रूपेण वर्णिताः दृश्यन्ते। पुराणेतिहासादिष्वपि बहुदेवतावादः विग्रहाराधनं च समर्धितं वर्तते। प्रबन्धेऽस्मिन् निरुक्तमीमांसा मतानुसारम् आध्यात्मिकाधिदैविकदृष्ट्या तथा आधिया-ज्ञिकरीत्या देवतानां एकत्व बहुत्वादि स्वरूपं तेषां विग्रहादिमत्वं च प्रपञ्च्यते।

PDF URL: View Article in PDF