Author(s): प्रो. प्रभाकरप्रसादः
Abstract:
‘शास्त्रे पूर्वोत्तरीभावोऽध्यायानामभिधास्यते’ इत्यादौ प्रतिज्ञातत्वात्पूर्वं द्वितीयतृतीयाध्याययोः सङ्गतिः प्रदर्श्यते- द्वितीय इत्यादिना । अयमाशयः- ‘अथातो धर्मजिज्ञासा’ इत्यादरभ्य ‘अर्थाद्वा कल्पनैकदेशत्वात्’ इत्येवमन्तैः सूत्रैः चतुर्भिः पादैः प्रथमाध्याये जिज्ञास्ये धर्मे विध्यर्थवादमन्त्राः, स्मृतिः, शिष्टचारः, नाम, वाक्यशेषः, पदार्थसामर्थ्यमित्यष्टौ प्रमाणानीति न्यायपूर्वकं प्रतिपादितम्। एव प्रथमेनाध्यायेनोक्तेषु धर्मप्रमाणेषु ‘भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते’(1) इत्यारभ्य ‘अपि वा क्रमसंयोगात् विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत’(2) इत्यन्तं चतुर्भिः पादैः द्वितीयेनाध्यायेन प्रमेयभूतं धर्मस्वरूपं निरुपितम् । यद्यपि प्रथमाध्याय एव धर्मप्रमाणेषूक्तेषु अर्थादेतावत्प्रमाणप्रतिपाद्यो धर्म इति सामान्यतो धर्मस्वरूपं निरुपितञ्जातमेव तथापि तत्र कार्त्स्न्येन धर्मस्वरूपस्यानिरुपणात् तद्गतानेकत्वरूपभेद-प्रतिपादनेन विशेषतः धर्मस्वरूपनिरुपणार्थं द्वितीयोऽध्यायः प्रवृत्तः।
PDF URL: View Article in PDF
