श्रीराघवकृपाभाष्यदिशा जन्मादि-वेदान्तसूत्रत्रयार्थ-विमर्शः

Author(s): अङ्कुरनागपालः, प्रो.श्रीमुरलीमनोहरपाठकवर्यः

Abstract:

भगवता बादरायणेन वेदान्तदर्शनं सूत्रितम् "अथातो ब्रह्मजिज्ञासा" इत्यारभ्य "अनावृत्तिः शब्दात्" इत्यन्तम्। तत्र कृते कर्मकाण्डविचारे विज्ञाते कर्मणामनित्यत्वे मुमुक्षुजीवेन शास्त्रनिर्णीतदृष्ट्या श्रीरामचन्द्राख्यस्य सगुणब्रह्मणस्तन्नामरूपलीलाधामस्वभावप्रभावविषयिणी जिज्ञासा कर्त्तव्या—इत्यादिमस्य सूत्रस्याशयः श्रीराघवकृपाभाष्यकारै रामभद्राचार्यस्वामिचरणैः प्रकटितः। परं किंलक्षणं तद्ब्रह्मेत्यपेक्षायाम् "जन्माद्यस्य यतः" इति द्वितीयेन सूत्रेण वेदान्तवेद्यस्य ब्रह्मणस्तटस्थलक्षणमुक्तम्, "शास्त्रयोनित्वात्" इतितृतीयेण च ब्रह्मणो ज्ञाने शास्त्राणां प्रामाण्यम्। अथ "तत्तु समन्वयात्" इति तुरीयेण च ब्रह्मणि शास्त्राणां समन्वयं प्रवदता भगवता सूत्रकारेण लक्षणपरीक्षा प्रवर्तिता। एवमेतत्सूत्रत्रयस्यार्थश्चित्रकूटस्थतुलसीपीठाधीश्वरैर्जगद्गुरुश्रीरामभद्राचार्यपादैः स्वीये 'श्रीराघवकृपा-भाष्ये' महता श्रमेण भगवदनुग्रहेण च निरुपद्रवेण स्वं राघवीयविशिष्टाद्वैतराद्धान्तं पुरस्कृत्य प्रपञ्चितः। अत्राऽस्मिन् शोधलेखे श्रीरामभद्रीयं ब्रह्मसूत्रराघवकृपाभाष्यमनुसृत्य स एवार्थो विमृश्यते।

PDF URL: View Article in PDF