मायायाः प्रपञ्चोपादानत्वम्

Author(s): डा.नागराजभट्टः

Abstract:

अनाद्यविद्या मायाशब्दिता त्रिगुणात्मिका भूतप्रकृतिः परमेश्वरोपाधिः जगदुपादानतया वेदान्तेषु प्रतीयते। “मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम्” इत्यादिश्रुतिभिः मायायाः भूतभौतिक-प्रपञ्चोपादानकारणत्वं प्रसाधितमेव। मायायाः जगदुपादानत्वविषये प्राचीनैर्वेदान्ताचार्यैः संसाधितानि मतानि प्राधान्येन त्रिषु पक्षेषु संग्रहीतुं शक्यन्ते। ते ब्रह्ममायोभयोपादानत्वपक्षः, ब्रह्ममात्रो-पादानत्वपक्षः, मायामात्रोपादानत्वपक्षश्चेति भवन्ति। ब्रह्ममात्रोपादानत्वपक्षेऽपि संक्षेपशारीरक-कारप्रतिपादितः मायायाः द्वारकारणत्वपक्षः, भामतीकारप्रतिपादितः मायायाः सहकारिकारणत्वपक्षश्च प्राचीनानां ग्रन्थेषु व्याख्यातः। इत्थं शोधलेखेऽस्मिन् मायायाः प्रपञ्चोपादानत्वविषये प्राचीनानामा-चार्याणां मतं संग्रहेण सिद्धान्तलेशसंग्रहप्रदर्शितानुसारं समीक्ष्यते।

PDF URL: View Article in PDF