सांख्ययोगदर्शने प्रतिपादितान्तःकरणस्वरूप-निरूपणम्

Author(s): डॉ. आनन्द मोहन जोशी

Abstract:

सांख्ययोगदर्शने प्रकृतेः प्रथमं कार्यम्महत्तत्त्वमस्ति। यस्याऽस्ति मुख्यरूपेण परिगृह्यमाणोऽयं सम्बोधनम्। अध्यवसायो निश्चय चेति। अनेनैतत् प्रकटीभवति यत् प्रकृतेराद्य-कार्यम्महत्तत्त्वमस्ति तच्चाऽस्ति निश्चयात्मकाऽध्यवसायस्वरूपकम्। इति कृत्वैव तत्त्वस्यास्य नामान्तरम्बुद्धिरिति । कथनस्यास्य तात्पर्यमिदमस्ति यदेततत्त्वं कीदृशमस्ति किं स्वरूपकञ्च। विषयोऽयं गाम्भीर्यपूर्णो रहस्युक्तश्चास्ति । यद् बुद्धयारन्यस्य महत्तत्त्वस्य रचना केन प्रकारेण भवति। तथापि तद्विषये कानिचिद् वाक्यानि प्रस्तूयन्ते। आदिसर्गे यदा सत्वरजस्तमोगुणानां साम्यावस्थायाम्प्रकृतौ नियक्तु चैतनस्या प्रेरणया क्षोभो भवति। क्षोभात् प्राक् सर्वे गुणाः साम्यावस्थायां प्रशान्तास्तिष्ठन्ति। सूक्ष्मातिसूक्ष्मारनन्ताश्च सत्त्वरजस्तमोगुणाः मूलतत्त्वस्वरूपायाः महाशक्तेः पुञ्जाः परस्परं विलक्षणस्वभावयुक्ताः सन्तोऽपि यावत् कालपर्यन्तं कस्मिंश्चिदपि स्वरूपे परिणन्तु सर्वथा प्रवृत्तिराहित्यम्भजन्ते। तेषां साऽवस्थैव प्रकृतिरिति नाम्ना समपदिश्यते। यदा चेतनस्य प्रेरणया ते गुणाः विक्षुब्धाः सन्तः वैषम्यमधिगन्तुं प्रवर्तन्ते। तदा क्रमशः सर्वोऽपि विकारव्यूहो प्रकटी भवति। तस्मिन् विकारव्यूहे सर्वतः प्राक् महत्तत्त्वं प्रकटीभवति।

PDF URL: View Article in PDF