स्वामीविवेकानन्दस्य शिक्षादर्शनस्य अखिलभारतीय-विवेकानन्द-युवामहामण्डले व्यवहारिकप्रयोगः , एकम् अध्ययनम् Practical Application of Swami Vivekananda’s Educational Philosophy in Akhil Bharat Vivekananda Yuva Mahamandal : A Study

Author(s): SOUMEN ROY

Abstract:

स्वामीविवेकानन्दस्य शिक्षादर्शनं भारतीयशैक्षिकचिन्तनस्य महत्त्वपूर्णः अध्यायः अस्ति। तस्य दृष्ट्या शिक्षा केवलं पुस्तकीयज्ञानस्य सञ्चयः न, अपितु मनुष्यस्य अन्तर्निहितशक्तीनाम् अभिव्यक्तिः, चरित्रनिर्माणम्, आत्मविश्वासविकासः, मनःशक्तेः विकासः तथा मानवसेवायाः भावना च अस्ति। तस्य शिक्षादर्शनस्य केन्द्रे मनुष्यनिर्माणम्, चरित्रनिर्माणम्, आत्मनिर्भरता, निर्भीकता, एकाग्रता, सेवा तथा नेतृत्वम् इत्यादयः प्रमुखाः तत्त्वाः सन्ति। अखिलभारतीय-विवेकानन्द-युवामहामण्डलः स्वामी-विवेकानन्दस्य एतेषां शैक्षिकविचाराणां युवसमाजे व्यवहारिकप्रयोगं कर्तुं प्रयतते। प्रस्तुतशोधपत्रे महमण्डलस्य ऐतिहासिककार्यक्रमानां माध्यमेन स्वामीविवेकानन्दस्य शिक्षादर्शनस्य व्यवहारिकरूपस्य अध्ययनं क्रियते। विशेषतः साप्ताहिकपाठचक्रः (weekly Study circles), एकदिवसीय प्रशिक्षणशिविरः (one day Youth Training Camp),क्षेत्रीय युवप्रशिक्षणशिविरः(zonal youth Training Camp), सर्वभारतीय युवप्रशिक्षण शिविरः( Annual All India Youth Training Camp), किशोर-प्रशिक्षणकार्यक्रमाः,विवेकवाहिनी(Child Training), सेवाकार्याणि, नेतृत्वप्रशिक्षणम् तथा प्रकाशनपरम्परा इत्येतेषां विश्लेषणं क्रियते। प्रस्तुताध्ययनं ऐतिहासिक-वर्णनात्मक-अभिलेखीयपद्धत्याधारितम् अस्ति। संस्थायाः आधिकारिकप्रकाशनानि, वार्षिकप्रतिवेदनानि, Vivek-Jivan पत्रिका, विवेक अञ्जन पत्रिका, प्रशिक्षणशिबिरसम्बद्धाः अभिलेखाः तथा स्वामीविवेकानन्दस्य मूलरचनाः प्रमुखस्रोतत्वेन स्वीक्रियन्ते। अध्ययनात् ज्ञायते यत् महमण्डलस्य कार्यपद्धतिः विवेकानन्दस्य शिक्षादर्शनस्य विचारः → अभ्यासः → अनुभवः → सेवा → व्यक्तित्वविकास इति क्रमेन व्यवहारिकरूपं प्रस्तुतयति। अस्य अध्ययनस्य निष्कर्षः अस्ति यत् विवेकानन्दस्य शिक्षा-दृष्टिः केवलं ऐतिहासिकवैचारिकविषयः नास्ति, अपितु आधुनिकयुवशिक्षायाः, चरित्रनिर्माणस्य तथा सामाजिकनेतृत्वस्य कृते अपि प्रासङ्गिका अस्ति।

PDF URL: View Article in PDF