उत्कलीयकाव्यजगति कविगंगाधरमेहेरस्य योगदानम्- एकमध्ययनम्

Author(s): डा. देवाशिषत्रिपाठी

Abstract:

उत्कलप्रदेशस्य स्वनामधन्यः कविः गङ्गाधरमेहेरमहोदयः स्वभावकविः इति नाम्ना प्रख्यातः। तस्य सर्वेषु काव्येषु प्रकृतिवर्णनस्य प्राधान्यं भजते । प्रकृतिमाद्धृत्य तस्य रचनाः रुद्धिमत्यः दृश्यन्ते। संस्कृतसाहित्यस्य अनेकैः कविभिः अभिप्रेरितः अयं कविः स्वकीयं रचनाचातुर्येण स्वकीयं विशिष्टस्थानम् उत्कलकाव्यजगति स्थापितवान् । केचन कवयः मौलिकं कथावस्तुमाधारीकृत्य काव्यं रचयन्ति । अन्ये सुप्रसिद्धकविभिः रचितकाव्यानां विषयवस्तुनः अनुसरणं कुर्वन्ति, यस्य प्रमाणं भारतीयसाहित्ये भूरिशः प्राप्यते। अस्याः पद्धतेः अनुसरणं करोति कविः गङ्गाधरः। संस्कृतसाहित्यजगतः मूर्द्धन्यकवि-कालिदासस्य अभिज्ञान-शाकुन्तलमिति नाटकस्यानुसरणेन गङ्गाधरेण प्रणयवल्लरी इति काव्यं विरचितमिति उत्कलसाहित्यसमालोचकानामभिमतम्। यद्यपि उभयोः रचनयोः साम्यं विषयवस्तुदृष्ट्या वर्त्तते इति सामान्यतया परिलक्ष्यते, तथापि बहुषु क्षेत्रेषु गङ्गाधरमहोदयस्य काव्येऽस्मिन् विषयवस्तुनः परिवर्तनमपि दृश्यते। तत्र परिस्थितेः परिवर्तनं, स्थानस्य परिवर्तनं, तात्त्विकरहस्यानां परिवर्त्तनञ्च अस्मिन् काव्ये दृग्गोचरं भवति । कालिदासस्य अनुवर्तीरूपेण गङ्गाधरस्य रचना यद्यपि समानं वर्तते तथापि प्रत्येकं विषयस्य वर्णने गङ्गाधरस्य मौलिकचिन्ताधारायाः स्वाक्षरं परिलक्ष्यते । कदाचित् प्रदत्तविषयाणां वर्णनं कृत्वा स्वकीयपाण्डित्यस्य कल्पनाविलासस्य युगानुसारी चिन्तनस्य समाजधर्मी उपदेशस्य च मञ्जूलरीत्या प्रकटयति गङ्गाधरः। अतः गङ्गाधरस्य घटनासंस्थानं, चरित्रचित्रणं प्रकृतिवर्णनं च स्वकीयभावसमृद्धौ दीप्तं वर्तते । अतः 'प्रणयवल्लरी' इति काव्यं कालिदासस्य कल्पनायाः गङ्गाधरीयभावमाधुर्यस्य च सुशोभनं समन्वयमिति निश्चप्रचं वक्तुं शक्यते।

PDF URL: View Article in PDF