जन्मकालिकदोषशान्तिविधीनां शास्त्रीयाधारः तथा अनुष्ठानपरम्परा

Author(s): Manjunath Hegde

Abstract:

भारतीयज्ञानपरम्परायां वेदाङ्गज्योतिषं धर्मशास्त्रं च परस्परं सम्पूरकौ स्तम्भवितौ स्तः। मानवजीवनस्य प्रारम्भादेव कालस्य सूक्ष्मावयवाः ग्रहनक्षत्रतिथियोगकरणादयश्च व्यष्टिचैतन्यं समष्टिपरिवेशं च निरन्तरं प्रभावितं कुर्वन्ति। यदा कश्चन शिशुः विशिष्टेषु खगोलीयकालसन्धिषु उत असामान्येषु दैहिकपरिस्थितिषु जन्म गृह्णाति, तदा शास्त्रेषु तज्जनितस्य अरिष्टस्य वा प्रतिकूलप्रभावस्य संज्ञा जन्मकालिकदोषः इति निर्दिश्यते। अस्य शोधप्रबन्धस्य मुख्योद्देश्यं जन्मकालिकदोषशान्तिविधीनां मूलभूतस्य शास्त्रीयाधारस्य अन्वेषणं तथा च लोकव्यवहारप्रचलितस्य अनुष्ठानपरम्परायाः प्रामाणिकं समालोचनात्मकं च मीमांसनं वर्तते। शोधेऽस्मिन् वर्णनात्मक-विश्लेषणात्मक-तुलनात्मकशोध-पद्धतीनामाश्रयेण वैदिकसंहितातः आरभ्य महर्षिपराशरप्रणीतं बृहत्पाराशरहोराशास्त्रं, वराहमिहिरकृतं बृहज्जातकं बृहत्संहिता च, वैद्यनाथदैवज्ञकृतं जातकपारिजातं, रामदैवज्ञकृतं मुहूर्तचिन्तामणिं, कमलाकरभट्टकृतं निर्णयसिन्धुं, नीलकण्ठभट्टकृतं शान्तिमयूखं, काशीनाथोपाध्यायकृतं धर्मसिन्धुं च समालोच्य दोषशान्तेः सैद्धान्तिकं व्यावहारिकं च स्वरूपं स्पष्टीकृतम्। मुख्यविवेचने त्रिविधगण्डान्तस्य (तिथि-नक्षत्र-लग्नगण्डान्तानां), मूलनक्षत्रस्य अभुक्तमूलस्य च घटिकात्मकं मानं, कृष्णचतुर्दश्याः षडंशविभागानां शुभाशुभफलं, सिनीवाली-दर्श-कुहूभेदेन अमावास्याप्रसवस्य चन्द्रकलाक्षयजनितं कारणं, तथा च एकनक्षत्र-त्रिकप्रसव-सदन्त-नालवेष्टित-यमलजन्मनां शास्त्रीयमान्यताः सप्रमाणं प्रतिपादिताः सन्ति। अनुष्ठानपरम्परायाः विमर्शे शतच्छिद्रकरकस्नानं, सप्तधान्य-सप्तमृत्तिका-सप्तविंशतितीर्थजलप्रयोगः, चतुष्कलशस्थापनं, स्वर्णमयमूलपुरुषपूजनं, एकाशीतिदर्भपरिस्तरणपूर्वकं वैदिकमन्त्रैर्हवनं, षोडशपलकांस्यपात्रे घृतपूर्णछायादानं, वंशपात्रद्वयमाध्यमेन गोमुखप्रसवविधिश्चेति पञ्चाङ्गिकप्रक्रियायाः दार्शनिकं मनोवैज्ञानिकं च रहस्यं सम्यक् उद्घाटितम्। निष्कर्षरूपेण प्रबन्धेऽस्मिन् स्थापितं यत् जन्मकालिकदोषशान्तिविधयः न केवलं भीतिनिवारकाः अपि तु अदृढप्रारब्धकर्मणां रूपान्तरणाय, पारिवारिकमनोबलवर्धनाय, मातृशिश्वोः आरोग्याय च महर्षिभिः प्रवर्तिताः सूक्ष्माः आध्यात्मिकचिकित्साप्रणाल्यः सन्ति।

PDF URL: View Article in PDF