Author(s): मिहिर दासः
Abstract:
धर्मं दर्शनञ्चाश्रित्य अनेकसाहित्यस्योद्भवं विकाशञ्च जायते। यथा सनातनधर्मं दर्शनञ्चाश्रित्य वैदिकसाहित्यं,जैनधर्मं दर्शनञ्चाश्रित्य जैनसाहित्यं, तथैव बौद्धधर्मं दर्शनञ्चाश्रित्य बौद्धसाहित्यस्योद्भवं विकाशमजायतः। विदितमस्ति यत् जैनाचार्याः कवयश्च संस्कृतसाहित्यस्य विकाशे महत्वपूर्णं योगदानं प्रदत्ताः। एवञ्च बौद्धाचार्याः कवयरपि संस्कृतसाहित्यं प्रणित्य संस्कृतवाङ्मयं विवर्धितवन्तः। प्रारम्भे तु जैनबोद्धपरम्परयां ग्रन्थानां रचना प्राकृतपालिभाषायां प्रारब्धारासीत्। परन्तु कालान्तरेषु संस्कृतभाषया ग्रन्थरचनाः प्रारब्धाः। विशेषतया महायानीयाः संस्कृतं तथा मिश्रसंस्कृतभाषायां ग्रन्थरचना कृतवन्तः। मन्यते यत् संस्कृतविदुषां वैदुष्येन(पण्डित्येन) अभिभूत्य बोद्धाचार्याः काव्यादिरचना प्रारब्धवन्तः। गीर्वाण्या संस्कृतभाषया ग्रन्थस्य प्रणिते सति ग्रन्थप्रणेतुः भगवन्तं तथागतं प्रति अतिशयश्रद्धापि प्रकटिता। अद्यपि बौद्धसाहित्ये संस्कृतग्रन्थस्य प्रणयनस्य परम्पराविच्छन्नरूपेण प्रचलिता वर्तते। बौद्धकवयः विशेषतया भगवतः बुद्धस्य जीवनचरितं उपदेशं सिद्धान्तञ्चाश्रित्य ग्रन्थादयः रचितवन्तः। अपि च बोद्धसंस्कृतसाहित्ये बौद्धनृपतिनां, महापरूषाणां, श्रष्ठविभूतिनां चरित्रादर्शादयः वर्णिताः सन्ति। यथा अश्वघोषस्य बुद्धचरितम्, सौन्दरनंदम् महाकाव्यम्, अचार्यबुद्धघोषस्य सिद्धार्थचरितम् महाकाव्यम्, आर्यशूरिणः जातकमाला, आचार्यशान्तिभिक्षु शास्त्रिणः बुद्धविजयम्, बुद्धोदयम्, अशोकाभ्युदकाव्यम्, सत्यव्रतशास्त्रिणः बोधिसत्वचरितमादिमहाकाव्यानि काव्यानि च अतिप्रसिद्धानि सन्ति।
PDF URL: View Article in PDF
