अभिज्ञानशाकुन्तले मानवीयसंवेदना

Author(s): Dr. Ashutosh Dora

Abstract:

महाकविकालिदासविरचिते ‘अभिज्ञानशाकुन्तलम्’ नाटके मानवीयसंवेदनायाः विविधाः पक्षाः सुन्दररीत्या चित्रिताः सन्ति। अस्मिन् नाटके प्रेम, करुणा, वात्सल्यं, त्यागः, विरहः, सहानुभूतिः च प्रमुखतया अभिव्यक्ताः सन्ति। दुष्यन्त-शकुन्तलयोः प्रेमकथामाध्यमेन मानवीयसम्बन्धानां सूक्ष्मभावनानां च मार्मिकं चित्रणं कृतम्। प्रकृतिः, नारीसम्मानः, पारिवारिकमूल्यानि तथा सामाजिकचेतना अपि मानवीयसंवेदनायाः महत्त्वपूर्णानि अङ्गानि सन्ति। वस्तुतः इदं नाटकं मानवजीवनस्य भावात्मकपक्षस्य तथा उदात्तमानवीयमूल्यानां उत्कृष्टं प्रतिबिम्बम् अस्ति।

PDF URL: View Article in PDF