International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डॉ.सौम्य रञ्जन महापात्र
नित्यं देदीप्यमानेषु कविरत्नेषु अलौकिकरत्नं महाकविकालिदासः। कालिदासः न केवलं महाकविः अपितु समाजसंस्कारकरपि आसीत् । तस्य प्रत्येकेषु काव्येषु व्यक्तेः चरित्रनिर्माणं तथा समाजशोधानार्थं तत्त्वाः प्राप्यन्ते । काल्या: दास:' इति कालिदासः । सर्वे जानीयुः यत् उज्जयिन्यां 'गडकाली देवी' कालिदासस्य इष्टदेवी । अपरमतानुगुणं महाकालः अस्य महाकवेः आराध्यदेवः । अनेन ज्ञायते यत् अस्य आचार्यस्य शिवशक्त्योः अखण्ड- विश्वासः, विश्वासे च श्रद्धा भवति । शास्त्रेषु लिखितम् “श्रद्धावान् लभते ज्ञानम्”। श्रद्धा शिक्षकस्य सर्वश्रेष्ठगुणः । आचरणेन दर्शयति यः सः आदर्श: । 'शिक्ष्' धातुना 'बुन्' प्रत्यये कृते सति 'शिक्षक:' इति पदं निष्पन्नं भवति । शिक्षयति अध्यापयति यः सः शिक्षकः । यं दृष्ट्वा अन्ये अनुकुर्वन्ति अत्र अनयोः पदयोः आदर्श: विशेषणं शिक्षकच विशेष्यं वर्तते । पुरा आचार्येण परम्परया अपाठ्यत । अरण्ये वेदाश्रमाः आसन्। तादृशेषु निर्जनेषु क्षेत्रेष्वपि बटव: पितृतुल्यस्य आचार्यस्य सकाशात् भयं न आप्नुवन् । कारणं स्पष्टं वर्तते सः आचार्यः सर्वशास्त्रनिष्णात: सर्वगुणसम्पन्नः सर्वान् शिष्यान् पुत्रवत् पालयन् अशोभत। तस्याम् आचार्यपरम्परायां भगवत्याः वाग्देव्याः वरदपुत्रः कविकुलगुरुकालिदासः अन्यतमः । गच्छता कालेन इयं गुरुपरम्परा तथा च शिष्यपरम्परा मार्गान्तरिता। भवतु नाम । तथापि साम्प्रतम् आदर्शशिक्षकस्य ये मानदण्डाः स्वीक्रियन्ते तेषाञ्च सर्वेषां निर्विवादं प्राक्कल्पनम् आचार्यस्यास्य विद्योत्तमाया: ईशस्य साहित्ये दरीदृश्यते ।