International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Parasaram Bhavanarayanacharyulu
शोधप्रबन्धसारांशः -
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते।
एनां विदन्ति वेदेन तस्माद्वेदस्य वेदता1 ।।1।।
इन्द्रियार्थजन्यं ज्ञानं प्रत्यक्षं, “हेतुव्याप्तिग्रहे तर्कः क्वचित् शङ्का निवर्तकः”। प्रत्यक्षानुमानप्रमाणाभ्यां यदगम्यं तत्सर्वं शब्दप्रमाणरूपेण वेदेन वेद्यं भवति। धर्मार्थकाममोक्षेषु यत् यत् वेद्यं तद्वेदेभ्यः अवगम्यते। अत एव भारतीयचैतन्यसर्वस्वाः वेदाः अनाद्यनन्ताः सृष्टिरपि अनाद्या तथापि आधुनिकाः वेदस्य सृष्टेश्च जन्मकालं निश्चेतुं यतन्ते। नास्माकं तैः विवदिषा। वेदाः स्वतन्त्राः मानवानां अभ्युदयनिश्रेयसप्रवृत्तयः वेदेभ्यः एव संस्कृताः। अभ्युदयः लौकिकः त्रिवर्गरूपः निश्रेयसं मोक्षः। निर्गतं श्रेयः यस्मादिति निश्रेयसम्। यत् सर्वेभ्यः प्रशस्तं तत् श्रेयः प्रशस्य शब्दात् उत्तमः इत्यर्थे इयसुन् प्रत्यये प्रशस्यस्य श्रः (5-3-60) इति श्रादेशे श्रेयस् शब्दो भवति। यस्मादुत्तमागतिः भवति तत् श्रेयः। श्रेयसः प्राप्तये वेदाः मानवं स्वधर्मे स्थापयितुं वर्णाश्रमधर्मान् विधाय तदनुरूपं कर्मानुष्ठानं च निर्दिष्टवन्तः। ततः आत्मगुणानपि प्रत्येकं बोधयामासुः। तदुक्तं भगवद्गीतासु, उपनिषत्सु