International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): जयपालः
भारतीयदर्शनेषु वैदिकावैदिकभेदेन द्वैविध्यं प्रसिद्धमेव तत्र वैदिकदर्शनानि न्याय-वैशेषिकदर्शने सांख्य-योगदर्शने पूर्वोक्तमीमांसादर्शनेति षट् दर्शनानि प्रसिद्धानि । तत्र निम्बार्कदर्शनं उत्तरमीमांसायाम् अन्तर्गतम् उत्तरमीमांसा दर्शनमेव वेदान्तदर्शनमिति अङ्गीक्रियते । यद्यपि वेदान्तो नाम उपनिषद् प्रमाणम् । परन्तु न केवलं उपनिषदाम् एव वेदान्ततत्वं तद् उपनिषदाधारेण लिखिताः ब्रह्मसूत्रग्रन्थाः गीतादिस्मृतिग्रन्थाश्च वेदान्त शब्देन व्यवह्रियन्ते । तत्र वेदान्त दर्शनस्य व्यासाचार्यैः उपनिषदां तात्पर्यनिर्णयार्थं ब्रह्मसूत्राणि लिखितानि । ब्रह्मसूत्रमेव वेदान्तशब्देन इदानीं विशेषतः प्रसिद्धिं भजते । तत्र व्यासाचार्याणां ब्रह्मसूत्राणां श्रीशङ्कराचार्य भगवतपादैः अद्बैतपरतया भाष्यं कृतमस्ति । एवं श्रीमद् रामानुजाचार्यैः विशिष्टाद्वैतपरतया भाष्यं कृतमस्ति । श्रीमध्वाचार्यैः द्वैतपरतया व्याख्यानं कृतमस्ति । एवमेव श्रीनिम्बकाचार्याः समतानुसारेण भेदाभेदवादम् आश्रित्य ब्रह्मसूत्राणां भाष्यं प्रणीतम् । तत्र निम्बार्क मते एकं चेतन तत्वं अन्यत् अचेतन तत्वम् इति प्राधान्येन भेदद्बयं कृतमस्ति । तत्र चेतनतत्वेपि जीवः एकं तत्वं ईश्वरः एकं तत्वं इति द्विविधं तत्वजातं निम्बार्कदर्शने स्वीक्रियते । इदानीम् अस्मिन् लेखे मया निम्बार्कदर्शने ईश्वरविषये किं वर्णितम् । तेषां मते ईश्वरस्य किं लक्षणम् अस्ति । तेषां मतस्य ईश्वरस्य किं वैशिष्ट्यं इति निरूपयामि ।