International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Sajna S
सारांशः
बौद्धधर्मे तु कार्यकारणवादस्य सिद्धान्तः प्रतिष्ठितः। यदा कारणस्य नाशः भवति तदानीं कार्यस्य अपि नाशः सम्भवति। तृष्णयाः कारणं कामः भवति। अतः कामत्यागम् प्रथमम् करणीयम्। कामात् मुक्तिः समाचरणीयो यस्य मनसि कामस्य नाशः भवति सः इह जन्मनि निर्वाणं प्राप्नोति। शीलं, प्रज्ञा तथा समाधि इति बुद्धतत्वत्रयम् भवति। बुद्धं, प्रति शरणम्, धर्मं प्रति शरणं, तथा सङ्घं प्रति शरणम् इति बौद्धदर्शने शरणत्रयं भवति। बौद्धधर्मे बुद्धः, धर्मः तथा सङ्घः इति रत्नत्रयम् इत्युच्यते।
बौद्धमते निर्वाणस्य सिद्धान्तः मुख्यः अस्ति। निर्वाणस्य प्राप्त्यर्थं भगवान् बुद्धः कठोरतपस्याम् आचरितवान्। सः जनानाम् दुःखात् मुक्तिः केन प्रकारेण सम्भवति इति ज्ञातुं सत्यस्य अन्वेषणं कृतवान्। निर्वाणप्राप्त्यनन्तरं भगवान् बुद्धः अष्टाङ्गिकमार्गस्य मध्यमप्रतिपदः च उपदेशं कृतवान्। तस्य परिनिर्वाणस्य अनन्तरम् बौद्धधर्मः अष्टादश सम्प्रदायेषु विभक्तः जातः। निर्वाणस्य प्राप्तत्यर्थं महत् श्रेष्ठं यत् यानम् अथवा उपायः भवति तत् महायानम् इति उच्यते। यत् यानम् श्रेष्ठं न भवति तत् हीनयानम् इति उच्यते। यत् बौद्धधर्मस्य प्राचीनमतानां ये अनुपालनं कुर्वन्ति ते एव हीनयान सम्प्रदायस्य अन्तर्भूताः अवन्ति।