International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Dr. PTG Ranga Ramanujacharyulu
श्रीमद्रामायणे सुन्दरकाण्डे- एति जीवं तमानन्दं वर्षशतादपि1 इति सीतीयाः कृते हनुमत् श्रीरामलक्षणयोः कुशलवार्ताकथनावसरे वर्षशतेभ्यः आनन्दानुभावः नूनं भवेदिति इति जानक्या प्रोक्तम्। अयमेवानन्दस्य परमार्थः।
आनन्दशब्दः टुनादि - समृद्धौ इति धातोः समुत्पन्नः।
स्वाभीष्टप्रातिप्रकटनपरः निरतिशयानन्द इत्यर्थः। स एवमोक्ष इत्यपि उच्यते।
छान्दोग्योपनिषदि - स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीर2 इति परमात्मसन्निधौ प्राकृतदेहानुभवादीन् परित्यज आहारविहारादीननुभवति।
तथैव स सर्वांश्च लोकनाप्नोति सर्वांश्च कामान् यतस्तमात्मानमनुविद्य विजानाति3 इत्यादिना जीवात्मनःआनन्दानुभावः विवृतः । परमात्मनः आनन्दविषये अवाप्तसमस्तकामत्वं तेनाचिदचिद्विलक्षण-त्वम् आनन्दमयत्वं च उच्यते। एतावता आन्नशब्दस्य समृद्धिहेतुकपरिपूर्णतात्रयुक्तानुकूल्यभवना-परत्वमुच्यते।