International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डा.सुखदेवभट्टः
अवतरणम् – अनुपसर्जनादि1ति सूत्रं स्त्रीप्रत्ययप्रकरणे तदन्तविधिं ज्ञापयति किन्तु ज्ञापनं तदा इव युक्तं भवति यदा तत्र ज्ञापकसोपानानि वैयर्थ्यं यत्किञ्चिदर्थकल्पनस्वांशे चारिताथ्यादीनि सर्वाणि भवेयुः। तत्र सूत्रस्य वैर्यथ्यं कथमिति विचार्य ततः तदन्तविधिः प्रस्तूयते । सम्प्रति सूत्रस्यास्य लघुशब्देन्दुशेखरदिशा विस्तरेण व्याख्यानं क्रियते।
ज्ञापकत्वम् - समासप्रत्ययविधौ प्रतिषेधः इति वचनात् स्त्रीप्रत्ययप्रकरणे तदन्तविधिः नास्ति प्रकरण-स्यास्य प्रत्ययविधित्वात्। तस्मात् असहायशब्दस्य उपसर्जनत्वाभावात् तादृशात् असहायात् एकस्मात् उपसर्जनरूपात् शब्दात् प्रत्ययविधेः निषेधार्थम् अनुपसर्जनाधिकारः इति वक्तुं न शक्यते। न कुत्रापि असहायस्य उपसर्जनत्वं प्राप्यते लोके। तस्मात् अधिकारोऽयं व्यर्थं सत् ज्ञापयति यत् स्त्रीप्रत्ययप्रकरणे तदन्तविधिर्भवतीति। तस्मादेव बहुधीवरी इत्यादिषु अन्नन्तादपि ङीप् भवति।