International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): राजेन्द्रकुमारझा:
आचार्यपराशरमते नाभासयोगानां विविधताः 2800 सन्ति । परन्तु यत्र मुख्यरूपेण त्रय आश्रययोगाः, द्वौ दलयोगौ, विंशतिः आकृतियोगाः सप्त च साङ्ख्ययोगाः सन्ति । अतः आहत्यः द्वात्रिंशत् नाभसयोगाः सन्ति । तत्रोक्तं सङ्ख्याविषये बृहत्पाराशहोराशास्त्रस्य नाभसयोगनाम्नि चतुर्दशेऽध्याये ।
अधुना नाभसा योगाः कथयामि सविस्तरः ।
अष्टादशशतगुणितास्तेषां भेदाः समासतः ॥
आश्रयाख्यास्त्रयो योगाः दलयोगद्वयं ततः ।
आकृतिर्विंशतिः संख्या योगानां सप्तकं स्मृतम् ॥
रज्जुयोगो मूसलश्च नलो मालाभुजङ्गमौ ।
गदायोगश्च शकटः शृङ्गाटकविहङ्गमौ ॥
हलवज्रयवाश्चैव कमलो वापियूपकौ ।
शरशक्तिदण्डनौकाकूटछत्रधनूषि च ॥
अर्धेन्दुयोगश्चक्राख्यः समुद्रश्चेति विंशतिः ।
वीणादामनिकायोगः पाशकेदारशूलकाः ॥
युगगोलौ ततः प्रोक्तौ योगाद्वात्रिंशका इमे ।
तेषां च लक्षणं वक्ष्ये यथा बुद्धिविवेकतः ॥