International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डा. मञ्जुनाथभट्टः
श्रीमद्भगवतः जगदीश्वरस्य निःश्वासरूपेण आविर्भूतेषु चतुर्षु वेदेषु सामवेदः अन्यतमः। अत एव भगवान् श्रीकृष्णः एवम् उवाच भगवद्गीतायाम्- “वेदानां सामवेदोऽस्मि” इति। सर्वात्मना श्रेयसः मार्गप्रदर्शकः स चायं वेदः “सहस्रवर्त्मा सामवेदः” इत्यादिभिः वाक्यैः ऋषिभिः जेगीयमानः अपि पूर्वं सहस्रशाखाभिः समुपेतः अयं वेदः एतर्हि अध्ययनस्य परम्परायां तिसृभिः शाखाभिः सनाथीकृता इति खेदावहोऽयं विषयः। सम्प्रति उपलभ्यमानासु कौथुमी-राणायनीय-जैमिनीयशाखासु तिसृषु कौथुमी इत्याख्या शाखा अत्यन्तं प्रसिद्धा। श्रौतयज्ञकर्मणि प्रधानभूतेषु होता, अध्वर्युः उद्गाता ब्रह्मा इति ख्यातेषु चतुर्षु ऋत्विक्षु उद्गातृगणे विद्यमानाः सर्वे ऋत्विजः सामवेदवेत्तारः अथवा सामवेदिनः भवेयुरिति नियमः वर्तते। श्रौतयज्ञे प्रधानाहुतिप्रदानकाले देवतानां स्तुतिः कर्तव्या भवति। ऋग्वेदस्य मन्त्रान् समाश्रित्य अत्र उद्गातृगणे विद्यमानैः ऋत्विग्भिः आहोस्वित् उद्गात्रा गानं क्रियते। इदमेव गानं भरतीयसंगीतस्य मूलम् इत्यत्र नास्ति संशीतिलेशः। किमेतत् गानं ? किं नाम सङीतम्? कीदृशः सम्बन्धः ? इत्यादिरूपेण विविधाः विचिकित्साः उत्थिताः भवन्ति।