International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डॉ. पिताम्बरमिश्रः
भारतीयानां धर्माधर्मकाममोक्षभेदेन पुरुषार्थचतुष्टयम्। साक्षात् परम्पराया वा पुरुषार्थापकारकाणि विद्यास्थानानि। विद्यास्थानानि चतुर्दश । तथाहि -
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या द्योताश्चतुर्दश ।। इति।
अस्मिन् संसारे चतुर्विधाः पुरुष विद्यन्ते अक्ष-सन्दिग्ध-विपर्यय निश्चितमिति भेदेन अप्रतिपन्नप्रतिपन्न-सन्दिग्ध विपर्ययस्तभेदेन वा। तत्र निश्चितमतिरेव मुनिपदवाच्यः शास्त्रेणाज्ञस्य ज्ञानमुपजनयति, संशयानस्य संशयमुपहन्ति, विपर्यस्यतो विपर्यासं व्युदस्यतीति जयन्तभट्टमतं जगति प्रसिद्धम्।
सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम्, तथैव न्यायदर्शनमपि। तकीः प्रमाणादिषोडशपदार्थाः। तथा च सूत्रं प्रमाणप्रमेयसंशयप्रयोजन दृष्टान्त सिद्धान्तावयवतर्कर्णियवादजल्पवितच्छाहेत्वाभास-च्छलणातिनिग्रहस्थानानां तत्त्वज्ञानान्निः श्रेयसाधिगम् इति न्यायस्य प्रथमं सूत्रम् इति परमकारुणिको भगवान् मुनिः अक्षपाद्गौतम सूत्रयत्। तथा च प्रतिपादितं मणिकारेण श्रीमता गङ्गेशोपाध्यायेन तत्त्वचिन्तामणिग्रन्थस्य प्रमाण्यवादप्रकरणे - ''अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्या-स्थानेषु अभ्यार्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनायः१। तत्र अन्वीक्षिकीशास्त्रं न्यायशास्त्रम्। अनुमानश्चान्वीक्षा, प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा। तया प्रवर्त्तते इयं न्याय-विद्या इति आन्वीक्षिकीव्यपदेशो भवति। न्यायप्रयोज्यानुमानं परार्थानुमानं न्यायशब्देनोच्यते नीयते विवक्षितार्थसिद्धिरनेनेति व्युत्पत्तेः। प्रतिज्ञाद्यवयवपञ्चासमुदायात्मके न्याये प्रत्यक्षादीनां न्यायाभि-मतानां चतुर्णामपि प्रमाणानां संसर्गः विद्यते। तत्र प्रतिज्ञावाक्येन सह आगमस्य, हेतुवाक्येन सह अनुमानस्य, उदाहरणेन सह प्रत्यक्षस्य, उपनयवाक्येन सह उपमानस्य च सम्बन्धोऽस्ति। समेषां प्रतिज्ञा-दिवाक्यानामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम्।