International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): गौरवः गौड़ः
संस्कृतवाङ्गये वेदानां स्थानं सर्वोपरि वर्तते। अर्थावगमनाय मन्त्रेषु उच्चारितवर्णानां उच्चारणज्ञानमावश्यकम्। अस्माकं भारतदेशे प्रचलिताः विविधाः भाषाः अस्माकं संस्कृतेरुदात्त-परम्पराभ्यः उत्कृष्ट वेदादिज्ञानाय, विपुलसाहित्यसंरक्षणाय, नवज्ञानसृजनाय चावश्यकाः। संस्कृत-वाङ्गमये प्रयुक्तानां शब्दानां शुद्धाशुद्धयोः विचारः येन शास्त्रेण क्रियते तद्धि व्याकरणम्। व्याकरणस्य केन उपायेन व्याक्रियते शब्दान्? पतञ्जलिना उक्तम्- “न हि शब्देन किञ्चिद् व्याक्रियते। केन तर्हि। सूत्रेण। सूत्रत एव हि शब्दान् प्रतिपद्यन्ते” । अर्थात् व्याकरणसूत्रेण हि शब्दानां शुद्धाशुद्धयोः विचारः क्रियते। एतदर्थं वार्तिककारेण कात्यायनेन प्रोक्तम्- ‘लक्ष्यलक्षणं व्याकरणम्’। साधुशब्दस्य ज्ञानं व्याकरणशास्त्रस्य साक्षात् प्रयोजनत्वादेव। साधुशब्द उत शब्दोऽस्ति लक्ष्यः। लक्ष्यमिदञ्च शब्दं सूत्रेण ज्ञायते इति सूत्रमस्ति लक्षणम्। सामान्यतः काचित् भाषां शुद्धरूपेण वक्तुं लेखितुं च य उपायः गृह्यते तं व्याकरणमुच्यते। अतएव व्याकरणेन ध्वनिविवेचनं शब्दविवेचनम् अर्थविवेचनं तथा वाक्यविवेचनं क्रियते । शुद्धोच्चारणं, शुद्धप्रयोगः, अर्थज्ञानम्, अनुवादः शब्दभण्डारम् इत्येवं बहुविधप्रयोजनस्य कृते अस्माभिः व्याकरणं पठनीयम्।