International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डॉ. स्वाती लोडे
व्याक्रियन्ते व्युत्पाद्यन्ते अनेन व्याकरणम्। बहूनि व्याकरणतन्त्राणि प्रोक्तानि बहुभिर्महर्षिभिः भगवतः पाणिनेः प्रागपि, किन्तु अधुना पाणिनीयं व्याकरणमेव प्रसिद्धम्। सूत्रपाठः, धातुपाठः, गणपाठः, शिक्षापाठः, लिङ्गानुशासनञ्चेति मिलित्वा पञ्चाङ्गं भवति व्याकरणस्य। तच्च पाणिनीये विद्यते। अथ च वैदिकशब्दानामनुशासनात् वेदाङ्गत्वमपि। अत एव प्राचीनेषु सकलेषु व्याकरणशास्त्रेषु पाणिनीयव्याकरणं प्राधान्यं भजते । द्वादशशताब्द्याः प्राग् एकोऽपि प्रक्रियाग्रन्थः नासीत्। तदा शास्त्राणां, महाकाव्यानां च प्रणेतारोऽपि पाणिन्यादीनामाचार्याणां ग्रन्थक्रमेणैव व्याकरणमधीत्य अपारशब्दशास्त्रपारं जग्मुः। अत एव अधुना पाणिनीयव्याकरणमेव सर्वोत्कृष्टं वर्तते इति। अस्मिन्नेव पाणिनीयव्याकरणे भगवता पाणिनिना सूत्ररचणावेलायं केचन वैयाकरणाः उद्धृताः अनुधृताश्चेति। तदित्थम्-