International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): L.Sudeendhra
“ प्रदीप: सर्वविद्यानाम् उपाय: सर्वकर्मणाम् आश्रय: सर्वधर्माणाम् शस्वदान्वीक्षिकीमता:” अष्टादश-विद्यास्थानेषु अभ्यर्हिततमा आन्वीक्षिकी। सेयं तर्कशास्त्रम् इति व्यपदिश्यते। न्यायवैशेषिकदर्शननाम्ना द्वेधा विभज्यन्ते इदं शास्त्रम् ॥ जानन्त्येव सर्वे न्यायवैशेषिकशास्त्रयो: सम्यक् व्युत्पत्तिमन्तरा इतरेषां शास्त्राणाम् अध्यययनं अध्यापनं वा सर्वतोभावेन दु:शकमिति। प्रसिद्धं हि “काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्” इति। तत्र न्यायशास्त्रस्य प्रवर्तक: गौतम:, अक्षपाद: इति नामान्तरम्। वैशेषिक-दर्शनस्य कर्ता कणाद:। सूत्रमूलकमिदं दर्शनद्वयं भाष्यवार्तिकटीकाभि: समलङ्कृतम् ॥ अनयो: दर्शनयो: परस्परोपकारतया गच्छता कालेन सम्मेलनं जातम्। काणाददर्शनं प्रमेयप्रधानम् । न्यायदर्शनम्, प्रमाणप्रधानम्। तदिदं न्यायदर्शनं प्राचीनन्यायदर्शनम् नवीनन्यायदर्शनम् इति द्वेधा विभज्य व्यवहरन्ति। गङ्गेशोपाध्यायकृततत्त्वचिन्तामणे: प्राक्तना: ग्रन्था: "प्राचीनन्याय" इति (मणिग्रन्थ:) तत: पश्चात्तना: ग्रन्थाश्च नव्यन्याय इति च व्यपदिश्यन्ते, गङ्गेशोपाध्याय: नव्यन्यायस्य प्रवर्तक:, रघुनाथशिरोमणि: जगदीशतर्कालङ्कार:, गदाधरभट्टाचार्य: एते नव्यन्यायमूर्धन्या: परिगण्यन्ते ॥ कणाद: वात्स्यायन: श्रीधर: एते प्राचीनन्यायसम्प्रदाय प्रवर्तका:। उदयनाचार्य: तु उभयो: सङ्गमे विराजते।