International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डॉ. प्रीतमसिंहः
प्रेक्षणार्थे दृश् धातोर्ल्युटप्रत्ययेन दर्शनपदस्य निष्पत्तिर्भवति । ‘ल्युट्’ प्रत्ययकरणार्थे भावार्थे, अधिकरणार्थे च भवति । अतः ‘दर्शनम्’ इति पदस्य व्युत्पत्तिस्तु इत्थं वर्त्तते -
करणार्थे - ‘दृश्यतेऽनेन इति दर्शनम्’ । अत्र ‘अनेन’ इति पदं करणार्थेऽस्ति । अत्र करणं किमस्ति? तदा कथ्यते कमपि पदार्थं प्रति दर्शनक्रिया चक्षुषा भवति । परञ्च चक्षुषा यदि तस्य पदार्थस्य सम्यग्ज्ञानम्, अवबोधनं वा भवति तद्नाम तु दर्शनम् । अतः ज्ञानचक्षुषा यत्किञ्चिदपि सम्यग्ज्ञानं भवति तत्तु दर्शनमिति। अत्र करणं सम्यग्ज्ञानमस्ति, यत्र संशयस्य कोऽपि विचारो न भवतीति।