International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डॉ मनीष भारद्वाज:
(यज्ञो वै श्रेष्ठतमं कर्म) सद्गमनस्य जनिता यज्ञ एव जीवनाधायक:"यज्ञो वै आप:, यज्ञो वै अन्न:, यज्ञो वै स्वरहरर्देवा: सूर्य यज्ञैव देवता सविता" । गीतायामपि यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन:। तथा च --- इष्टान्भोगान्हि यो देवा,दास्यन्ते यज्ञभाविता:"। यज्ञस्य लोकत्रयं व्याप्ति श्रीमद्भगवद्गीताऽपि समर्थयति---"तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठतम्"
यज्ञनिमित्तेनायुर्जीवनकाल:क्लृप्तो भवत्विति यजुर्वेदस्य माध्यन्दिनीये अष्टादशाध्याये मन्त्रेषूल्लेख: कृत:-(आयुर्यज्ञेन कल्पतां,प्राणो यज्ञेन कल्पतां..........…अभूम वेट् स्वाहा।
शतपथब्राह्मणेऽपि "सर्वेषां देवानां आत्मा वै यद्यज्ञ:" । एतावता यज्ञ कर्मसु श्रेष्ठो भवति,येन कर्मणा सम्पूर्णं विश्वं सौख्यं कल्याणं आरोग्यमाप्नोति ।एतदर्थ मुहुर्मुहु: श्रौत स्मार्त वा श्रौतस्मार्तविहितानि यज्ञकर्माणि विश्वशान्तये सदैव कर्तव्यानीति।
अस्मिन् संसारे यावन्तो जंगमात्मका: प्राणिन: सन्ति,तेषां मनुष्येषु परोपकारभावो जायते।एतदर्थ हि प्रथमतो जगत्पिता देवान् संसृज्य अंतरिक्षादिस्थानं सृष्टवान्। यज्ञेन देवा: सौख्यसाम्राज्यमनुभवन्ति, सर्वे मनुष्या: यज्ञेन महद्वैभवं प्राप्नुवन्ति।।