International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Dr. S. Sitarama Rao
सुन्दरं, रसात्मकं च शब्दार्थयुगलं काव्यमित्यभिधीयते। तच्च "दृश्यम्", "श्रव्यम्", "मिश्रम्" चेति त्रिविधं भवति। अभिज्ञान शाकुन्तलमित्यादीनि नाटकानि दृश्यकाव्यानि। रघुवंशमहाकाव्यादी-नि सर्वाण्यपि काव्यानि श्रव्येऽन्तर्भवन्ति।
"गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते” इति आलङ्कारिकस्य विश्वनाथस्योक्तिः। तदनन्तरभाविनोऽ-प्याचार्याः तदेवावदन्।यस्मिन् काव्ये गद्यानि, पद्यानि च सङ्गतानि वर्तन्ते तानि चम्पूकाव्यानि। चम्पूशब्दः चुरादिगणस्य गत्यार्थकचापिधातोः औणादिक-उन् प्रत्ययकृते ऊङ्-आदेशः कृत्वा च निष्पद्यते। "चम्पयति" अर्थात्सहैव गमयति प्रयोजयति गद्यपद्ये इति चम्पूः। हरिदासभट्टाचार्यनाम-कपण्डितानुसारेण “चमत्कृत्य पुनाति, सहृदयान् विस्मयीकृत्य प्रसादयति” इति चम्पूः।
चम्पूकाव्येषु "शब्द-चमत्कारः" अर्थप्रसाद गुणश्चोभौ भवेताम्। चम्पूकाव्येषु वर्णनात्मक गद्यस्य प्रयोगः भवति। अर्थगौरवाय च पद्यस्य प्रयोगः भवति। स्वीययाऽर्थप्रधानतया गद्यकाव्यं गौरवशालि, यतो हि पद्य काव्यं कियतांशेन रागद्वारापि श्रोतृजनमनांख्याकर्षयति, गद्यकाव्यं तु स्वीयेनार्थगौरवेणैव श्रोतृजनहृदयान्यावर्जयेत्।