International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. PTG Ranga Ramanujacharyulu
वेदोऽखिलो धर्ममूलमित्युक्तरीत्या सर्वधर्माणां निदानभूतः ऋगादिभेदेन चतुर्विधो वेदः। वेदे तावत् भगवत्स्वरूपगुणविभूतयः न्यरूपयन्। तस्यैव निगम इत्यपरं नाम। निगमप्रतिद्वन्द्वि शब्दः आगमः लोके वरीवर्ति। आगमास्तावत् भगवतः अनुग्रहसिध्यर्थं क्रियमाणविधीनां बोधक इति पूर्वाचार्याः सङ्गिरन्ते। आगमो नामानादिसम्प्रदायसिद्ध -गुरुशिष्यपरम्परोपदेशक्रमागतः शास्त्रविशेष इत्यभिनव -देशिका श्रीमन्त उत्तमूरुवीरराघवाचार्याः लक्ष्मीतन्त्रग्रन्थस्योपोद्घाते उचुः।
आङ् इत्युपसर्गपूर्वक गम्ल्-गतौ इत्यस्माद्धातोः गृहवृदृनिश्चिगमश्च1 इति पाणिनि सूत्रानुसारं अप् प्रत्यये आगमशब्दः निष्पन्नः। भगवदाराधनाबोधकं शास्त्रमित्यर्थः। आगम्येते प्रमीयेते हिताहित-प्राप्तिपरिहारौ इत्यागमः। एवं निश्चीयेत् नितरां आत्मतत्त्वं येनासौ आगम इत्यर्थः। आराध्यदेवतानु-सारमागमाः वैदिका-वैदिकभेदेन द्विविधम्। वैदिकाः वैष्णवशैवशाक्तभेदेन पुनः त्रिविधाः। वैष्णवागमः वैखानसपाञ्चरात्रभेदेन द्विविधः।