International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डा. नीरजभारद्वाजः
विश्वसाहित्यस्य प्राचीनतमो धर्माधर्मावबोधको भारतीयसंस्कृतिसंवाहक: इष्टप्राप्त्यनिष्टपरिहारयोर-लौकिकोपायभूतो नानाज्ञानविज्ञानरत्नाकरो ग्रन्थो ‘वेदः’ प्रकीर्तित: ऋषिभिः।
अनिष्टपरिहाराय प्रयासो नाम प्राक्तनकर्मणः परिवर्तनमेव। अर्थात् नाभुक्तं क्षीयते कर्म इत्युक्तेः परिहारवदेव भाति। कर्मणः पङ्क्तौ यदि अनिष्टं किमपि विद्यते चेत् तन्निवारणाय पूर्वमेव प्रयासः करणीय इति तावत्। अर्थात् कृतकर्मणः परिष्कारो विद्यत इति।
कर्मार्जितं पूर्वभवि सदादि यत्तस्य पंक्तिं समभिव्यनक्ति इति वराहाचार्योक्त्या ज्योतिषे ग्रहरा-श्यादिभिः प्राक्तनकर्मणः परिपाकस्य ज्ञानं क्रियते। परिहाराभावे ज्ञानस्य पूर्वज्ञानमनपेक्षितमेव। अतः वैदिककर्माचरणाय वेदोक्तपरिहारमार्गाणामनुसरणायाचरणाय च ज्योतिषमनिवार्यमेव। तदर्थमेव ज्योतिषवेदयोः अङ्गाङ्गीभावसम्बन्धो विद्यते।
धर्मार्थकाममोक्षाणां चतुर्विधपुरुषार्थानामाप्तये स्वस्थशरीरस्यावश्यकता भवति। शरीरमाद्यं खलु धर्म-साधनमिति कालिदासस्योक्तावपीदं स्पष्टं भवति। तस्य शरीरस्य वातपित्तकफजन्यदोषाः नैके भवन्ति। तेषामपि दोषाणां ज्ञानं ग्रहभैरेव भवति। ग्रहाधीनं जगत्सर्वम् ग्रहाः राज्यं प्रयच्छन्ति ग्रहाः राज्यं हरन्ति चेत्याद्युक्तयोऽत्र प्रमाणानि विद्यन्ते।