International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): श्री चन्द्रमौलि कल्याणः
भावाभावभूतेऽस्मिन् जगति अभावस्य विषये नञर्थः वैशिष्ट्यं भजते। निषेधार्थकमव्ययरूपम्, अयं “नञ्” विधेरर्थं विशेषयति, पदपदार्थवाक्यार्थानां यथार्थबोधे उपयुक्तां भूमिकां निर्वहति च। यद्यपि सर्वासु दार्शनिकशाखासु नञः निषेधार्थकता एवाभिमता, तथाप्यस्य स्वरूपमर्थबोधकत्वं चाधिकृत्य विभिन्नाः मतयः दरीदृश्यन्ते। निषेधार्थकस्याव्ययस्यास्य स्वरूपस्य एवम् अर्थबोधप्रक्रियायाश्च विषये व्याकरणन्यायमीमांसादर्शनानि विशेषेण बहुकिञ्चित् निगदयन्ति। एतन्नञ् कदाचित् समासेषु कुत्रचिद् वाक्येषु पृथक् च प्रयुज्यते। यथा- “अघटं पश्यति” “घटो नास्ति” इत्यादिषु स्थलेषु। किञ्च समस्तव्यस्तयोः उभयोर्मध्ये कुत्र नञः कोऽर्थः, कस्मिन्नर्थे स्वीकृते यथार्थबोधो भविष्यति? इत्यादिशङ्कानिवृत्तये सुतरां नञर्थस्य विचारः आवश्यकः। प्रबन्धेऽस्मिन् व्याकरणदिशा नञर्थः निरूप्यते।