International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): सत्यव्रत: पाण्डेयः
मण्डलानां विषये उपक्रमं कुर्वन्तः वयम् अवगताः भवेम यत् प्रागैतिहासिकयुगस्य अनन्तरम् आर्याणाम् आगमनेन एव अस्माकं सभ्यता संस्कृतिः च नूतनं साधनं गृहीतवती। आर्याणां आगमनानन्तरमेव भारते मण्डलमण्डनस्य आरम्भः अभवत् । आर्यजनाः वैदिकपरम्परायां विश्वासं कुर्वन्ति स्म । अग्नि-सूर्य-वरुण-मित्र-नवग्रह-प्रकृति-बल-आदिदेवतानां पूजनार्थं पूजा-यज्ञ-होमहवन-आदि-संस्कारान् कुर्वन्ति स्म । आर्याणामनन्तरं ब्राह्मणवर्गेण मण्डलानां प्रवर्तनं कृतम्।
यजुर्वेदे संस्कारार्थं बहूनि मण्डलानि निर्मितानि सन्ति। यथा - सर्वतोभद्रमण्डलम्, चतुर्लिंगतोभद्र-मण्डलम्,अष्टलिङ्गतोभद्रमण्डलम्,द्वादशलिंगतोभद्रमण्डलम् इत्यादयः मण्डलानि यज्ञकाले निर्मिताः आसन्। पूर्वं ते केवलं स्थले एव निर्मिताः आसन् । मण्डलस्य मसि इति पदार्थैः पूरयितुं (गोधूमः, तण्डुलः, दालः, मुंगदालः) इत्यादीनि धान्यानि उपयुज्यन्ते स्म । अन्येषु मण्डलमण्डनरचनेषु कुम्कुम-हल्दी-सिन्दुर-गोमयभस्म, कृष्णाङ्गारचूर्णं, चन्दनचूर्णं, पुष्पं, तुलसीं, आमवृक्षस्य हरितपत्राणि च उपयुज्यन्ते स्म ।