International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Parvathy V J
समेषामास्तिकदर्शनानां मणिरिव विराजमाने वेदान्तदर्शने अन्तर्गता मधुसूदनसरस्वतिश्रीचरणैः प्रणीता सिद्धान्तबिन्दुरिति प्रकरणग्न्थः। श्रीमच्छङ्कार्यचारविरचितस्य दशश्लोकीग्रन्थस्य गाम्भीर्यं ज्ञापयितुं तस्य व्याख्यारूपेण ग्रन्थोऽयं उपनिबद्धः। आचार्यकृतिनिवेशनेन स्वकीयस्य ग्रन्थस्य पवित्रता, उपादेयत्वं च भवतु इति धिया तथा दशश्लोकीग्रन्थस्य गभीरार्थस्य स्फुटावगमनाय च इमं ग्रन्थं मधुसूदनसरस्वतिश्रीचरणाः अरीरचन्।
अयं सिद्धान्तबिन्दुग्रन्थः वेदान्तशास्त्रारम्भसमर्थनेन आरभते। यतो हि वेदान्तशास्त्रं नारम्भणीयं विॆषयाभावात्, प्रयोजनाभावाच्च इति पूर्वपक्षिणां मतम्। अस्याक्षेपस्य खण्डनपूर्वकं वेदान्तमतस्य सप्रयोजनत्वं सप्रमाणकत्वं च उपस्थापयन्ति मधुसूदनसरस्वतिवर्याः। पूर्वपक्षिणः इत्थं तेषां मतम् उपस्थापयन्ति यत्- अज्ञातज्ञापनेनैव शास्त्रस्य प्रामाण्यं सिद्ध्यति, प्रमाणस्य अनधिगताबाधितार्थ-विषयकज्ञानजनकत्वात्। परन्तु वेदान्तशास्त्रं तु ज्ञातज्ञापकत्वेन अप्रमाणम्। ‘शरीरं व्यावर्त्यते आत्मा तु अनुवर्तते’ इति अनुमानप्रमाणेन, अनात्मभ्यः विवेकेन आत्मज्ञानम् अस्य वेदान्तशास्त्रस्य पठनात्प्रागेव सिद्ध्यते इत्यस्मात्। ‘यः अहं बाल्ये पितरौ अन्वभूवं स एवेदानीमहं वृद्धावस्थायां प्रणतॄननुभवामि’ इति प्रत्यभिज्ञानात्, तथा ‘व्यावर्त्यमानेषु शरीरेषु यत् व्यावर्त्यते तत् तेभ्यो भिन्नम्’ इति लौकिकनियमाच्च। आत्मा तु अहङ्कारास्पदः, इदङ्कारास्पदमिदं शरीरम् इति शरीरात्मनोः भेदः वेदान्तशास्त्रपठनं विनैव वर्तते। वेदान्तशास्त्रमिदम् अप्रमाणम्, पूर्वमेव अनुमानप्रमाणेन शरीराद्यनात्मभ्यः विवेकेन सिद्धस्य आत्मनः अवबोधात्।