International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Haripada Bera
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्चवृत्तयः सन्ति । परार्थाभिधानं वृत्तिः इति वृत्तेः लक्षणम्। अर्थात् प्रत्ययान्तर्भावेन अन्यपदार्थान्तर्भावेन वा यो विशिष्टः अर्थः सः परार्थः। परार्थः अभिधीयते येन इत्यर्थे करणे ल्युटि परार्थाभिधानम् इति शब्दस्य व्युत्पत्तिः। अत एव तिङन्तस्य वृत्तिरिति व्यवहारः न भवति। तत्रैकार्थीभावात्। लक्षणमिदं "समर्थः पदविधिः" इति सूत्रे भाष्ये लक्ष्यते। परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः। यथा– राजपुरुष इत्यत्र राजशब्देन वाक्या-वस्थायामनुक्तः पुरुषार्थोऽभिधीयते इति कैयटाचार्यः। नव्यास्तु एकशेषस्य वृत्तित्वं नाभ्यपगच्छन्ति। परार्थान्वितस्वर्थोपस्थापकत्वरूपवृत्तित्वस्य तत्राभावात्। परन्तु द्वन्द्वापवादतया एकशेषस्यापि वृत्तित्वमुचितमिति अन्ये वदन्ति। अनया रीत्या समासोऽपि वृत्तिषु अन्यतमः इति। प्रसङ्गेऽस्मिन् नैयायिकमीमांसकादीनां शाव्दिकैः मतभेद दृश्यते। एवञ्च निबन्धेऽस्मिन् वृत्तिस्वरूपम्, अस्याः जहत्स्वार्थऽजहत्स्वार्थभेदेन द्वैविध्यम्, समासे विशिष्टाशक्तिः, इत्येतत्सर्वं विवेच्यते।