International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): चापाटि षण्मुखजानकीरमणः
अष्टाध्यायीप्रक्रियाग्रन्थेषु भट्टोजिदीक्षितैः विरचितः सिद्धान्तकौमुदीनामकग्रन्थः शृङ्गायते। यतो हि पूर्वं विद्यमानेषु रूपावतार-प्रक्रियाकौमुदीत्यादिषु प्रक्रियाग्रन्थेषु अष्टाध्याय्याः समस्तसूत्राणां सन्निवेशः नासीत्, किन्तु भट्टोजिदीक्षितैः समग्राष्टाध्यायीसूत्राणि प्रकरणवशात् प्रविभज्य तदर्थवर्णनमकारि। समग्रग्रन्थस्य विभागश्च त्रयोदशसु प्रकरणेषु व्यधायि। तानि च – संज्ञा-परिभाषा-सन्धि-सुबन्त-अव्यय-स्त्रीप्रत्यय-कारक-समास-तद्धित-तिङन्त-कृदन्त-वैदिक-स्वर-नामधेयकानि वर्तन्ते। अतः सिद्धान्तकौमुदी प्रक्रियानुसारिपाणिनीयवृत्तिषु मूर्धन्यतां भजते। सैषा कौमुदी न केवलं शब्दरचनप्रक्रियामेव किन्तु वैयाकरणसिद्धान्तसंग्रहात्मकतया अवबोधे अधिकसारल्याद् अद्यत्वेऽतिमात्रं लब्धप्रचारा सञ्जाता। अतः आभाणकमिदं लोके प्रथितं वर्तते।