International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डा. के. राजगोपालन्
"तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि" इति मम्मटाचार्यकाव्यलक्षणे अदोषौ इति दलम्। अत्र अदोषौ दोषरहितौ शब्दार्थौ काव्यं स्यात् इति। तत्र दोषः नाम कीदृशः? तस्य दोषस्य आचार्यमम्मटोक्तं लक्षणं किम्, तस्य च भेदाः के? इति जिज्ञासायां सोदाहरणं अत्र विचार्यते॥
अग्निपुराणे सप्तचत्वारिंशदुत्तरत्रिशततमे (347) अध्याये "उद्वेगजनको दोषः सभ्यानाम्" इत्येवं दोषलक्षणमुक्तम्। एवं च पुराणानुसारं काव्यरसास्वादनसमये दोषः सामाजिकचेतसि क्षोभं समुत्पादयति इति भावः।