International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): आचार्य चक्रवर्तिरङ्गनाथन्, आरादन्तर्जालीयविद्यानिकेतः
मङ्गलश्लोकः – अथ सरसिजयोनेराज्ञया रामवृत्तं
करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या।
शुभमतनुत काव्यं स्वादु रामायणाख्यं
मधुमयभणितीनां मार्गदर्शी महर्षिः॥
आदिकाव्यत्वेन प्रसिद्धमेतद् रामायणं भारतीयानामस्माकं नित्यानुसन्धेयो ग्रन्थो भवति। प्रत्यहमपि बहवः महत्या श्रद्धया श्रीमद्रामायणस्य पारायणं कुर्वन्तः, फलवन्तो भवन्तीति विश्वजनीनोऽयं विषयविशेषः। रामायणस्य यावान् आदरः प्रचारः विद्यते, तावान् न कस्यापि विद्यते इति नात्युक्तिः। रामायणपारायणविधेः यावत् महत्वं तावत् महत्त्वं नान्यस्य ग्रन्थस्यास्तीति विद्म एव। गायत्रीमहामन्त्रस्य यावान् महिमा विद्योतते तावानेव रामायणस्यास्तीति विषये अनुभवज्ञाः प्रमाणम्।
अत एवोच्यते –यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
तावत् रामायणकथा लोकेषु प्रचरिष्यति॥ इति प्रथा।