International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Monojit Mukherjee
अद्वैतवेदान्तिनां स्वमतमाधारोकृत्य ब्रह्म एकमेव परमतत्त्वञ्च। यद्यपि विविधनामरूपकारणाभ्यां तस्मिन् भ्रमो जायते, तथापि वस्तु एकमेव इति, अज्ञानस्य कारणवशात् जीवः स्वयं ब्रह्मणो विच्छिद्यते। यदा ज्ञानं जायते, तदा आत्मब्रह्मणोः अभेदः भवति, सैव अभेदः मोक्षः इत्युच्यते, अहं ब्रह्मास्मि"। अस्माकं भारतवर्षे केवलं प्रपञ्चस्य विषये चिन्ता नैव क्रियते, अपि तु परलोकविषयकचिन्ता अपि वर्त्तते। सर्वासु विद्यासु अध्यात्मविद्या सर्वोच्चस्थानं लभते। "अध्यात्मविद्या विद्यानां" इत्यनेन श्रीकृष्णवचनेन महत्त्वमिदं प्रतिपाद्यते। इदमात्मज्ञानं षड्दर्शनेषु भिन्नतया प्रतिपाद्यत।
क. न्यायदर्शने आत्मज्ञानं ज्ञानाधाररूपेणाङ्गीक्रियते।
ख. योगदर्शने आत्मा शुद्धः निष्क्रियञ्च एवं सुष्टुतया प्रतिपाद्यते।
ग. पूर्वमीमांसायां चित्तशुद्धेः कृते बहूनि कर्माणि अपेक्ष्यन्ते।
घ तानि आत्मज्ञानस्य कृते साधनानि भवन्ति ।
ङ सवापेक्षया सांख्यदर्शने सुष्ठुरूपेण प्रतिपाद्यन्ते। अस्मिन् दर्शने सृष्टेः मूलमस्ति पारमार्थिक-सत्तावत् पुरुषः प्रकृतिश्च।
सांख्यवादिभिरङ्गीक्रियते मूलप्रकृतिः उत प्रधानमस्य समग्रप्रपञ्चस्य कारणम्, परन्तु अद्वैतिनः निराकुर्वन्ति यद् ब्रह्मैव अस्य जगतः उत्पत्तेः पश्चात् मूलहेतुः। तर्हि स्वाभाविकतया अयं प्रश्नः उदेति, किमेतज्जगत्, किदृक् एतद् इत्यस्य समाधानं दीयते अस्य प्रपञ्चस्य सृष्टिविषये क्वचित् सत्पूर्विका सृष्टिः पठ्यते असद्वा इदमग्रे आसीत् ततो वै सञ्जायते” ।
अधुना शङ्का जायते जगतः उत्पत्तः पश्चात् हेतुः कः? यद्यपि कस्यापि वस्तुनः सृष्टेः पश्चात् कारणं निश्चिततया एवं वर्त्तते। अस्य समाधानमुच्यते प्रधानं अहोस्विद् मूलप्रकृतिः प्रपञ्चस्योत्पत्तिविषये मूलकारणम्, तथा चोक्तं "प्रकृतेराद्योपादानतान्येषां कार्यत्वश्रुते।” पुनः प्रश्नः उत्थापितः अस्ति यद् प्रकृतिवद् पुरुषोऽपि न विकृतिः भवति, अमुष्मिन् सृष्टरूपादानता किमर्थ न स्वीक्रियते तदुपरि सूत्रकारेण कथ्यते यद् "नित्यत्त्वेऽपि आत्मनि योग्यत्वाभावात्"।
अद्वैतवदान्तिनः तु कथयन्ति यद् जगतः प्रधानं कारण प्रधानं तु न अपि तु ब्रह्म एव, श्रुतौ उक्तमस्ति "यतो वा इमानि भूतानि जायन्ते येन जातानि जोवन्ति यद् प्रयन्त्यभिसंविशन्ति तत् विजिज्ञासस्व तद् ब्रह्म इति”।
एवं रीत्या अनयोः मतभेदप्रसक्तौ किं मतं ज्यायः, किं मतमग्राह्ममिति भवति सन्दहः। तस्मिन् सन्देहे सति केषाञ्चित् सांख्यमतमेव ग्राह्यमिति भ्रमः स्यात। तत्र युक्तोनां वहवीनां सत्त्वात् स्तुतिसहकारस्यापि सत्त्वात् इति कृत्वा तं भ्रममपनोदितं भगवता सूत्रकारेण भागवत्त्यदैः च सूत्रभाष्ययोः द्वितीयाध्याये विचाय सांख्यमते स्तुतिरनुग्रहः स्मृतिस्नुग्रहः वा नास्ति, न वा तत्र युक्तयः सन्ति निर्णीतम्। तं विचारं विचारयितुमेव अयं शोधप्रयासः।