International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): स्वर्णाली पात्र
अलङ्काराः यथा काव्यस्य शोभावृद्धिं कुर्वन्ति तथैव गुणाः अपि काव्यस्य सौन्दर्यविधायकाः भवन्ति। आचार्यो दण्डी तु तस्य काव्यादर्शाख्यस्य अलङ्कारग्रन्थस्य प्रथमपरिच्छेदे दशप्रकारान् गुणान् प्रतिपादितवान्। आचार्यस्य दण्डिनो मते काव्ये तु गुणस्य भूमिका एव प्रधानभूता भवति। आचार्यो वामनस्तु गुणानां स्थितिं शब्दार्थयोः समानरूपत्वेन स्वीकुर्वन् कथयति यत्, दशशब्दगताः गुणाः एवञ्च दशार्थगतगुणाश्च वर्तन्ते। भोजस्तु स्वस्य सरस्वतीकण्ठाभरणे गुणनानां संख्यान्तु इतोऽपि अधिकामु-क्तवान्। गच्छतः कालस्य परम्परायामुक्ता सर्वेऽपि गुणास्तु त्रीषु एव गुणेषु अन्तर्भाविताः मम्मटाचार्येण, ते च प्रसिद्धाः गुणाः भवन्ति– माधुर्य-ओजः-प्रसादाश्चेति। मम्मटाचार्यस्य मते पूर्वोक्ताः ये गुणाः सन्ति, तेषु केचन तु एतेषु त्रिषु अन्तर्भूताः भवन्ति। केचन दोषाभावरूपत्वेन तिष्ठन्ति केचन तु गुणाः अभूत्वा दोषाः भवन्ति। तद्यथा द्रष्टुं शक्यते–