International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): सारदा हाँसदा
योगचूडामण्युपनिषद् सामवेदशाखायाः अन्तर्गतं एकम् उपनिषद् अस्ति। अस्मिन् उपनिषदि नाथपरम्पराया सह बहवः विषयाः सङ्गच्छन्ति। अस्मिन् उपनिषदि कुण्डलिनीयोगः वर्णितः अस्ति। चतुर्णां वेदानां योगपनिषदां संख्या विंशतिः अस्ति। तासु योगचूडामण्युपनिषद् एकं प्रमुखम् उपनिषद् मन्यते। अस्मिन् सामवेदोपनिषदि योगध्यानद्वारा आत्मशक्तेः जागरणप्रक्रिया स्वविस्तरं वर्णिता अस्ति। अष्टाङ्गयोगस्य प्रथमासनादिषट्भागान्कथयित्वा योगसिध्देः अत्यावश्यकंदेहतत्वज्ञानम्, मूलाधारा-दिचक्रज्ञानम्, कुण्डलिन्यां परमज्यतिदर्शनंम्, नाडीचक्रम्, नाडीस्थानम्, नाडीसञ्चारितप्राणवायुः तथा तस्य कार्याणि, प्राणेन सह जीवस्य गतिमयता, अजपागायत्र्याः अनुसन्धानम्, कुण्डलिनीद्वारा मोक्षद्वार-भेदनम्, त्रिबन्धाः, खेचरीमुद्रा, वज्रोल्यादिनां लक्षणम्, महामुद्रास्वरुपम्, प्रणवजपस्य विशेषप्रक्रिया, प्रणवस्य ब्रह्मणः ऐक्यम्, आत्मज्ञानबोधकत्वम्, प्रणवजपस्य आवश्यकता तथा च एतादृशाः बहवः योगविषयाः फलानि च कथितानि।
सत्यमेव तस्य “योगचूडामणि” इति नाम अन्वर्थकम्। यतः तस्मिन् अनेके योगविषयाः दत्ताः सन्ति, तस्य च उपासकः योगस्य चूडामणिः( मुकुटः) भवितुम् अर्हति। योगिनां हिताय “योगचूडामणिः”नामकं उपनिषद् विरचितम् अस्ति। अस्यां उपनिषदि कैवल्यसिध्देः विषये स्पष्टं विवेचनं दृश्यते । आसनम्, प्राणायामः, प्रत्याहारः, धारणा ध्यानम्, समाधिः च एतेषां षडङ्गानां समुच्चयः योगः इति कथ्यते।