International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डॉ. सुमनदासः
कार्य-कारणमतवादानुसारेण कार्यं कारणस्य प्रतिभासः विवर्तमात्रं वा, तदेव विवर्तवादः इति कथ्यते। अर्थात् एतन्मतानुसारं केवलं कारणं कार्यरूपे प्रतिभातं भवति, परन्तु कार्ये न परिणमते । अद्वैतवैदान्तिगणः विर्वतवादी। ते द्विधा भवितुम् अर्हन्ति परिणाम विवर्तभेदेन च। तत्र सतत्त्वतोऽन्यया प्रथा परिणामः। वस्तुनः यथार्थतः स्वरूपं परित्यज्य वस्त्वन्तरप्राप्तिः परिणामः। वस्तुनः स्वरूपापरित्यागेन स्वरूपान्तरेण मिथ्याप्रतीतिः विवर्तः - अतत्त्वतोऽन्यथा प्रथा विवर्तः। यदा किंचन कारणभूतं वस्तु अवास्तविकतया कार्यरूपवस्त्वन्तरत्वं प्राप्नोति तदा प्राथमिकवस्तुनः द्वितीयवस्तुरूपेण विवर्तः इत्युच्यते। यथा रज्जुः स्वरूपापरित्यागेन सर्पाकारेण मिथ्या प्रतिभासते एवं शुक्तेः मिथ्या रजतरूपेण भानं विवर्तः। विवर्ते कार्यकारणयोः विषमा सत्ता भवति। यदुक्तं धर्मराजाध्वरीन्द्रेण वेदान्तपरिभाषायाम् - 'विवर्तो नामोपादानविषमसत्ताककार्यापत्तिः' इति। तथा च स्वोपा-दानसत्ताविषमसत्ताकत्वे सति कार्यत्वं विवर्तत्वं इति लक्षणं पर्यवस्यति।