International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Dr. Markanda Nayak
’मुखं व्याकरणं स्मृतम्“१ इत्युक्त्या व्याकरणशास्त्रमिदं वेदाङ्गेषु मुख्यं स्थानं सततं भजतेतराम्। प्रोक्तञ्च भगवता पतञ्जलिना ’प्रधानं च षट्स्वङ्गेषु व्याकरणम्, अतः प्रधाने च कृतो यत्नः फलवान् भवतीति“२। तदर्थमृते व्याकरणज्ञाद् नैव सफलायते जगत्यस्मिन्। व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अननेति इति व्युत्पत्त्या व्योपसर्गाभ्यां डुकृञ् करणे इत्यस्माद्धातोः करणार्थे ल्युटि प्रत्यये व्याकरणशब्दोऽयं निष्पद्यते। तद्विषये श्रीमता पतञ्जलिना समाक्षितं यत् - ’एक: शब्द: सम्यग् ज्ञात: सुप्रयुक्त: स्वर्गे लोके कामधुग् भवतीति३।“
भाषा हि मानवस्य भावप्रकाशस्य प्रधानमाध्यमं भजते। सा व्याकरणशास्त्रेण नियन्त्रिता सुव्यवस्थिता च वर्तते। यथा संस्कृतसाहित्यवाङ्मये- वाल्मीकि-व्यास-कालिदासप्रभृतय: मनीषिणः विद्योतन्ते । तथैव व्याकरणवाङ्मयेऽपि नैके वैयाकरणाः स्फुटयन्ति नितरामिदं शास्त्रम् । तदुक्तम्