International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Markanda Nayak
महाभाष्ये भगवता पतञ्जलिना व्याकरणस्य प्रयोजनं वदता अथ शब्दानुशासनम् इत्युक्तम्। शब्दानुशासनं व्याकरणस्य मुख्यं प्रयोजनम्। व्याकरणं विना भाषाणां साधुशब्दप्रयोगः असम्भवः। तथापि संस्कृतवाङ्मयस्य सर्वेऽपि भाषाव्यवहारः पूर्णतः व्याकरणमधिष्ठाय प्रवर्तते। तस्मात् संस्कृतभाषायाः सुप्रयोगार्थं व्याकरणस्य महत्त्वं सर्वातिशायि वर्त्तते ।
संस्कृतव्याकरणे अनेकेषु व्याकरणेषु पाणिनीयव्याकरणं वर्त्तते अन्यतमम्। पाणिनीयव्याकरणे शब्दानुशासनार्थं सन्ति अनेके विधयः। तेषु णत्वविधिः अन्यतमः। णत्वविधेः परिशीलनं विना साधुशब्दप्रयोगः नैव सुकरः। तथाहि रघुनाथः रामनाम इत्यादिषु प्रयोगेषु विदुषां संदेहः यत् कथमत्र णत्वं नेति। अत एव णत्वविधौ संदेहनिराकरणेऽयं प्रयासः। तत्रादौ णत्वविधायकानि सूत्राणि आलोच्य तन्निषेधसूत्राणि सोदाहरणमालोच्यते।