International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): मधुमिता गुच्छाइत्
योगतत्त्वं मानवजीवनस्य एकं गभीरं सार्वभौमं च जीवनदर्शनं रूपेण उपस्थापयितुं शक्यते, यत् व्यक्तिजीवने शारीरिकस्वास्थ्यं, मानसिकस्थैर्यं तथा आध्यात्मिकविकासं च एकत्र संयोजयति, एवं समन्वितविकासस्य मार्गं निर्दिशति। आधुनिकसभ्यतायाः शीघ्रपरिवर्तनशीलपरिस्थितौ मानवः नित्यं विविधप्रकारकाणां तनावानां, चिन्तानां तथा मानसिकअस्थिरतायाः सम्मुखीभवति। प्रौद्योगिकीनिर्भरजीवनशैली, स्पर्धात्मककार्यसंस्कृतिः तथा सामाजिकप्रत्याशानां दबावः च मानवस्य आन्तरिकशान्तिं सन्तुलनं च विघ्नयति। अस्यां परिस्थितौ योगः एकः प्रभावी जीवनपद्धतिः इव महत्त्वपूर्णां भूमिकां निर्वहति, यः व्यक्तिं स्वस्य आन्तरिकशक्तेः तथा स्थैर्यस्य पुनःप्राप्तौ सहायं करोति। योगाभ्यासेन मनः शनैः शनैः संयतं एकाग्रं च भवति, तेन चिन्तनशक्तेः गाम्भीर्यं वर्धते तथा निर्णयग्रहणे स्पष्टता आगच्छति। एषः केवलं मानसिकशान्तिं न ददाति, अपि तु भावनानियन्त्रणशक्तिम् अपि वर्धयति, येन व्यक्ति अनावश्यकप्रतिक्रियाभ्यः तथा उत्तेजनाभ्यः आत्मानं दूरीकर्तुं शक्नोति। नियमितयोगाभ्यासः आत्मसचेतनतां वर्धयति, यया व्यक्ति स्वस्य आन्तरिकस्थितेः गभीरं बोधनं प्राप्नोति तथा आत्मविकासमार्गे अग्रे गन्तुं समर्थः भवति।
योगस्य एषा प्रक्रिया व्यक्तित्वनिर्माणे महत्त्वपूर्णां भूमिकां वहति, यतः एषः मानवेषु धैर्यं, सहिष्णुता, नैतिकता तथा आत्मनियन्त्रणम् इत्यादीनां गुणानां विकासं करोति। तेन कारणेन व्यक्ति केवलं व्यक्तिगतजीवने एव न, अपि तु सामाजिकजीवनेऽपि अधिकदायित्वशीलं तथा सन्तुलितं आचरणं कर्तुं समर्थः भवति। शिक्षाक्षेत्रे, कार्यक्षेत्रे तथा पारिवारिकजीवने च अस्य सकारात्मकः प्रभावः स्पष्टतया दृश्यते।