International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): डा. सुशान्त भूञ्या
‘धङ्’ धारणपोषणयोरित्यस्माद्धातोरौणादिके ‘मन्’ प्रत्यये कृते धर्मशव्दो निष्पद्यते। तस्यैव धर्मस्य कर्त्तव्यं पालनं धारणं संस्कार इत्यादयोऽर्थाः स्मृतिप्रसिद्धाः। तत्पतिपादकं शास्त्रं धर्मशास्त्रम्। अर्थात् येन शास्त्रेण कर्त्तव्य-शौचाचार-व्यवहार-प्रायश्चित्तादीनां प्रतिपादनं भवति तदुच्यते। तस्मात् विद्वद्भिः धर्मशास्त्रस्य लक्षणं बहुधा व्याकृतम्। तत्र गुरुवरैः राष्ट्रपतिसम्मानितैः लव्धावसरधर्मशास्त्राचायैः पण्डितश्रीकुलमणिमिश्रपादैः धर्मशास्त्रस्य लक्षणमित्थं प्रतिपादितं यत् – ‘धर्मशास्त्रं नाम सकलशास्त्र-पुरस्कृतं निखिललोकसुरक्षकं कृत्याकृत्यप्रतिपादकत्वेन नित्य-नियतोपादेयं साक्षाद्वेदार्थनुमापकत्वेन वेदवत्प्रमाणं तपःस्वाध्यायपूतचरित्राणां यमनियमानुष्ठानप्रयतात्मनां सकलसंस्कारसंस्कृतानामत्मगुण-विद्योतितान्तःकरणानां ब्रह्मादिस्तम्भपर्यन्तसकलहितभूतकाङ्क्षिणां रागद्वेष-रहितानां मनु-गौतम-वसिष्ठादिमहर्षीणां नित्यस्वाध्याध्ययनपूतकण्ठोद्गीर्णत्वेन सर्वजनग्रहणीयं गुणीगणसमादरणीयं प्राचीमतमं शास्त्रमिति’।
धर्मशास्त्रे धर्ममेवाधारीकृत्यैव परुषार्थचतुष्टयसिद्धिः प्रतिपादिता। धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः। तत्र स्मार्त्तधर्मः धर्मशास्त्रस्य विषयीभूतः। अतएव धर्मस्य तत्त्वं मानवस्य समग्रं जीवन-मभिव्याप्योपदिष्टम्। एते सर्वे धर्मशास्त्रस्य विषयाः पुर्वोक्ताचारव्यवहारप्रायश्चित्तादयो भवन्ति। तेषु प्रथमतः आचार एव विशेषरुपं विदधाति। मनुष्यस्य दिनचर्या, देशाचार-कुलाचार-वर्ण-जात्यादि-व्यवस्था, ब्रह्मचारि-गृहस्थाश्रमव्यवस्था, गर्भाधानद्यन्त्येष्ट्यन्तसंस्काराणां कालः, दान-श्राद्ध-पञ्चमहायज्ञानां चर्चा,अशौच-भक्ष्याभक्ष्य-द्रव्यशुद्धि-प्रभितिविषया आचारभागान्तर्गताः।