International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): अञ्जलीपालः
भक्तिभावपूर्णे श्रीजयदेवविरचिते श्रीगीतगोविन्दकाव्ये अङ्गिरसरूपेण विद्यमानस्य शृङ्गार रसस्यास्य पूर्णता सहृदयहृदयानि नितरां ह्लादयति। अत्र शृङ्गाररससम्बन्धिनः श्लोकाः इतस्ततः दृश्यन्ते। न केवलं श्लोकानामाधिक्येन एव शृङ्गाररसस्य अधिकता दृश्यते, अपि तु कस्मिंश्चित् श्लोके कविना स्वयं काव्यस्यास्य शृङ्गारोपजीव्यत्वं ख्यापितम्। वस्तुतः कवेर्मतेन भगवान् श्रीकृष्ण एव शृङ्गारस्वरूपः। तथाहि।
श्लोकेनानेन काव्यस्यास्य शृङ्गारत्वं सुन्दरं स्फुटति। श्लोकेनानेन कविर्जयदेवः भणति यत् - विश्वं यः अनुरञ्जयति स हरिः अद्य वसन्ते विलसति। विश्वे स्थितानां सर्वेषामणूनां परमाणूनां च ब्रह्मादिस्तम्बपर्यन्तं सर्वेषां यथाभावं रञ्जनम् अनुरञ्जनम् इत्युच्यते। सर्वान् च स्वस्वक्षेत्रेषु विकासयन् तेषां पूर्णताप्रदानमेव विश्वस्य अनुरञ्जनम् इति वा वक्तुं शक्यते। नीलपद्मम् इव तस्य सुन्दरश्यामलं, कोमलं च अङ्गम् अनङ्गस्य उत्सवक्षेत्रम्। एतादृशः मूर्तिमान् शृङ्गाररसः व्रजाङ्गनानाम् आलिङ्गनादिना हृष्टः सन् आनन्दमुत्पादयति। ह्लाद एव विश्वम् ह्लादयति। श्रीरासभूमिरेव रसविलासभूमिः, आनन्दस्य प्रस्रवणम्। तस्मादुत्थितम् अमृतम् एव जगत् सञ्जीवयति। रसशास्त्रकाराणां वैष्णवाणां मतमत्र सूक्ष्मेक्षिकया परिशीलनीया वर्तते। यतो हि वैष्णवानां मते तु शृङ्गारस्य अर्थः जीवनाधायकत्वेन वर्तते। तथाहि रसशास्त्रकाराणां मते तु।