International Journal of Multidisciplinary Horizon
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
ISSN No. : XXXX – XXXX
Peer Reviewed Journal
Author’s Helpline : +91 – 8368 241 690
Mail to Editor: [email protected]
Author(s): Mallika Sen
वेदानामध्ययनेन सह षडङ्गानामध्ययनमपि नित्यत्वेन विहितं वर्तते शास्त्रकारैः । षडङ्गैः सह तत्तशाखायाः प्रातिशाख्यग्रन्थाः अपि अध्येतव्याः भवन्ति । प्रातिशाख्येन सह सम्बद्धशाखायाः लक्षणग्रन्थाः अपि अध्येतव्याः ।अथर्ववेदीय-परिशिष्टं सायणद्वारिलयोः अपेक्षया बहु प्राचीनः अस्ति। तेषु ४६ वा परिशिष्टं चरणव्यूहः भवति। तस्य वचनम् अस्ति ---- “ लक्षणग्रन्था भवन्ति । चतुरध्यायी, प्रातिशाख्यम्,पञ्चपटलिका , दन्त्योष्ठविधिः , बृहत्सर्वानुक्रमणी चेति।’’
लक्षणग्रन्थेषु अन्तर्निहिता एते ग्रन्थाः अथर्ववेदस्य फलफलप्रदाने अध्ययनाध्यापने च महत्त्वपूर्णसहा-यकरूपेण विवेचिताः सन्ति पूर्वाचार्यैः । एतेषु ग्रन्थमध्ये पञ्चपटलिका अन्यतमा भवति ।
पञ्चपटलिका अथर्ववेदस्य शौनक-संहितायाः विन्यास-विभाजनतत्त्वानां सुघटितः एकः संक्षिप्तग्रन्थः । १९२० वर्षे लाहोरे भगवद्दत्तेन सम्पादितः एषः ग्रन्थः । एषः ग्रन्थः पञ्च पटलैः घटितः, नवदश (19) नवदश खण्डे विभक्तः । विदितमेव यत्, अथर्ववेदसंहिता काण्डम्, प्रपाठकः, ऋक्, पर्यायः, अवसाने विभक्तम् । पञ्चपटलिका एकस्मिन् सुक्ते ऋक् संख्या, एकस्मिन् पर्याये अवसानं संख्या, एकस्मिन् अनुवाके सूक्तानां संख्या, एकस्मिन् काण्डे अनुवाकस्य संख्या सम्वन्धिततथ्येन सज्जितमस्ति ।
पञ्चपटलिका तित्रिषु भागेषु विभक्तमस्ति । ते यथाक्रमेण काण्डेषु घटितः – 2-7, 8-10, 11-18 इति भवन्ति । एतत् विभाजनं यथायथं युक्तियुक्तमिति वक्तुं शक्यते । पञ्चपटलिकायाः प्रथमाकृत्याम् अनुवाकानुसारेण, द्वितीय-तृतीयाकृत्यां सूक्तानुसारेण सूक्तस्य गणना कृता । तदुक्तं - 'सूक्तश्च गणना प्रवर्तते । इति ।
डब्लू. डि. हुट्नि अथर्ववेदसंहितायाः अपि तिसृषु आकृतिषु विभाजनं करोति, सः एतद्विभाजनं ‘ग्राण्ड डिविशन’ (Grand Divisions) नाम्ना अभिधीयते । परन्तु आकृतयः (units) पञ्चपटलिकया सह सम्पूर्णरूपेण न मिलन्ति ।
अस्मिन् संख्यान्तर्गतग्रन्थे अष्ठौ भिन्नाः द्वे पुस्तके (‘अ’,‘ब’) स्तः। प्रथमपटले कतिपयानि प्रारम्भिकानि शब्दाः पुनरुत्पादनं भवन्ति अन्ये च केचनः शब्दाः लोप्यन्ते तत् उक्तानुक्तं कथ्यते । द्वितीयपटले अथर्वसंहितायां छन्दम्,काण्डः, सूक्तादि स्थितिम् उच्यते । यजुषां ऋक्यपर्यायिकं सूक्तवर्णकं च त्रिविधानां अवसानानां व्याख्यानम् । तृतीयपटले ११ खण्डात् एकावसानः, त्रयः अवसानाः, चत्वारः अवसानाः, पञ्चावसानाः च ऋचां प्रतीकाः समाविष्टाः सन्ति । चतुर्थपटले सप्तकाण्डस्य प्रथमैकैकस्य अनुवाके प्रत्येकस्मिन् ऋक्संख्याः दत्तम् ततः अवशिष्टकाण्डानां प्रत्येकस्मिन् सूक्ते ऋक्संख्याः दत्तम् । पञ्चमपटले एतेषां काण्डानां पर्यायेषु अवसनासंख्यां ददाति , प्रति पर्यायसूक्तं प्रतीकेन निर्दिश्य भवेत् । अस्मिन् पूर्वपटले ८, ९, १२, १३, १५, १६ च काण्डस्य केषुचित् सूक्तेषु पर्याय इति उक्तम् । पञ्चमपटले उक्तम् --- विराड्वायां चतुष्कस्तु षट् पर्यायस्तु निश्चिताः । पञ्चपटलिका अथर्ववेदस्य महत्त्वपूर्णेषु लक्षनग्रन्थेषु अन्यतमा । अयं पञ्चपटलिका अथर्ववेदसंहितायां अनुलिपिकरणाय नियमाः व्यावहारिकोद्देश्येन च रचितम् अस्ति ।